SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ७० । सम्यगध्याप्य निष्पाद्य यश्चान्तेवासिनो बहून् । चक्रे कुम्भ - ध्वजारोपं गच्छ - प्रासादमूर्धनि ॥ श्रीजिनपालोपाध्यायमौलेस्तस्यास्य सन्निधौ । मयोपादायि नन्द्यादिमूलागमाङ्गवाचना || X X X श्रीजिनपालोपाध्यायकृतां त्रिः प्रेरणामहम् । चरित्रकरणे प्रापं सरस्वत्युपदेशवत् ॥ सुशकुनमिवास्मि तन्मन्वानो द्रढिमान्वितः । काव्याभ्यासविहीनोऽपि व्यधां काव्यमिदं ततः ॥” - अभयकुमारचरित्रे ( प्रश० ३७-४२ ) वि. सं. १३२० वर्षे सन्देहदोलावलिवृत्तिकर्ता प्रबोधचन्द्रगणिश्चैनमेव जिनपालोपाध्यायं निजमागमगुरुमभ्यजिज्ञपत् “ नृपसमिति विजितविविधप्रतिवादिवितीर्णजयपताकाऽऽढ्याः । जिनपा लोपाध्याया आसन् यस्यागमे गुरवः || ” - सन्देहदोलावलिवृत्तौ (प्रश० ) जिनपालस्य सतीर्थ्याः । ( १ ) जिनेश्वरसूरि : - जिनपतिसूरेरयं पट्टधरः, अस्य परिचितिरुपरि समसूचि । ( २ ) पूर्णभद्रगणिः – अस्य परिचयोऽकारि जेसलमेरुभां०सूच्याम् ( १. ४९ ) (३) सुमतिगणिः - परिचायितोऽयं जेसलमेरुभां ० सूच्याम् (अप्रसिद्ध ० पृ. १०) ( ४ ) सूरप्रभोपाध्यायः - अस्य परिचयोऽग्रे कार्यते । ( २ ) सूरमभोपाध्यायः । अपभ्रंशकाव्यत्रय्यन्तर्गतायाः कालस्वरूप कुलकसंज्ञिकाया द्वात्रिंशिकाया वृत्तिकारो जिनपतिसूशिशिष्योऽयं स एवाभिज्ञायते येन वि. सं. १२८५ वर्षे पूर्णभद्रगणिरचितं धन्य---शालिभद्रचरितं समशोधि “ चरितमिदमखिलं निर्मलविद्याकूपारपारदृश्वानः । वाचकमुख्याः सूरप्रभाभिधाः शोधयाञ्चक्रुः || ” – जेसलमेरुभां ० सूची । वि. सं. १२९५ वर्षे गणधर सार्धशतक - बृहद्वृत्तिकारः सुमतिगणिर्निजं सतीर्थ्य मेन मित्थमुपालक्षयत्--- “ यद्वक्त्राम्भोज - रङ्गाङ्गणभुवि भुवि नाभोगभङ्गीप्रबन्धा Jain Education International नानाच्छन्दःप्रबन्धै रचितबुधमनश्चित्रचित्रप्रबन्धा। युद्द मकामप्रकटन विकटोत्पाटपाट प्रचारा श्रीवाणी नर्तकी प्रसभमभिसभं स्फारहारप्रकारा ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy