SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६९ इत्थं चास्य कृतिक्रमः परिज्ञायते - वि. सं. १२६२ वर्षे षट्स्थानक - वृत्तिः । सनत्कुमारचक्रिचरितं सटीक महाकाव्यम् । वि. सं. १२९२ वर्षे उपदेशरसायन - विवरणम् । वि. सं. १२९३ वर्षे द्वादशकुलक- विवरणम् । पञ्चलिङ्गीविवरण- टिप्पनम् । "" " वि. सं. १२९४ वर्षे चर्चरी - विवरणम् । अज्ञातरचनासमयं स्वप्नविचार - भाष्यादि । वि. सं. १२९५ वर्षे जिनदत्तसूरीयगणधर सार्धशतकस्य बृहद्वृत्तिकर्ता सुमतिगणिः समकालीनं स्वसतीयमेतं जिनपालोपाध्यायमित्थं स्मरति स्म—— “ नानातर्क-वितर्क-कर्कशलसद्वाणीकृपाणीस्फुरत्तेजःप्रौढतर प्रहारघटनानिष्पिष्टवादिव्रजाः । श्री जैनागमतत्त्वभावितधियः प्रीतिप्रसन्नाननाः सन्तु श्रीजिनपाल इत्यलमुपाध्यायाः क्षितौ विश्रुताः ॥ नानालङ्कारसारं रचितकृतबुधाश्चर्यचित्रप्रकारं नानाच्छन्दोऽभिरामं नगरमुखमहावर्णकाव्यप्रकामम् । दृब्धं काव्यं सटीकं सकलकविगुणं तुर्यचक्रेश्वरस्य क्षिप्रं यैस्तेऽभिषेकाः प्रथमजिनपदाश्लिष्टपाला मुदे नः || ” - गणधर सार्धशतक बृहद्वृत्तौ ( प्र० लो. १५,१६ ) चन्द्रतिलकोपाध्यायेनाहङ्कारिवादिविजेतुरस्मादेव जिनपालोपाध्यायाद् नन्द्याद्यागमवाचनोपादायि । वि. सं. १३१२ वर्षे रचितं नवसहस्रश्लोकपरिमितमभयकुमारचरित्रमपि तेनास्यैव जिनपालोपाध्यायस्य प्रेरणया व्यरचीति तत्प्रान्ते व्यक्तीचक्रे - भूयोभूमिभुजङ्गसंसदि मनोनानन्दविप्रं घनाहङ्कारोद्धुरन्धरं सुविदुरं पत्रावलम्बप्रदम् । जित्वा वादमहोत्सवे पुरि बृहद्वारे प्रदर्शयच्चकै - र्युक्तः सङ्घयुतं गुरुं जिनपतिं यस्तोषयामासिवान् ।। Jain Education International "" For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy