SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ र्जिनाधिपतिशासनं समुदनीनमत् सन्मनाः । समग्रगुणमालिकासमतियातस्तावले य॑लोक्यततरामहो किमपि वैशिष्ट्यमृत् ॥ यस्मिन् परिषहचमूभरसंसहिष्णौ __नानोपसर्गपटली विकटां विजिष्णौ । ऊर्जत्तपःश्रियि परोपकृतिप्रवीणे । श्रीवीरनाथजिनतां प्रथयन्ति धन्याः ॥" -वीजापुरवृत्तान्ते । वि. सं. १३८३ वर्षे जिनकुशलसूरिः" अत एव श्रीआशापल्या पूर्वसैद्धान्तिकचक्रचूडामणिभिर्वादीन्द्रद्विपदघटाविद्रावणकेसरिभिर्निश्छद्मशुद्धक्रियाकारिभिः श्रीजिनपतिसूरिभिः श्रीप्रद्युम्नसूरिभिः सहायतनानायतनवादं कुर्वाणैः सकलान्याचार्यचक्रप्रत्यक्षमोघनियुक्त्यादिसिद्धान्तानुसारेण सविस्तरमायतनं संस्थाप्यानायतनं निरीचक्रे ।" तथा " दृष्ट्वा मोहव्यपोहं विदधत इह यान् मोहकी स्वकान्तां ___श्यामां ज्ञात्वा च चन्द्रस्तदुपहातभिया तां तनूकृत्य नूनम् । क्रोडीचक्रे कलङ्कच्छलत उडुवृतो व्योम्नि शून्येऽभ्रमञ्च श्रीमन्तस्तत्कपट्टे जिनपतिगुरवस्ते चकासाम्बभूवुः ॥” -चैत्यवन्दनकुलकवृत्तौ (पृ. ५५, प्रश० श्लो० ४ ) जिनपतिसूरिसत्काः कतिचित् पुस्तिका उपलभ्यन्तेऽद्यापि जेसलमेरुभाण्डागारादौ। एवं प्रस्तुतस्य प्रौढविदुषो वादिविजेतुस्तस्य जिनपतिसरेः शिष्योऽयं जिनपालोपाध्यायः । जिनपालस्य जन्म-दीक्षाऽऽदिसमयः सम्यग् नावबुध्यते, तथापि षट्स्थानकवृत्तिस्तेन वि. सं. १२६२ वर्षे विहिता विज्ञायत इति ततः पूर्व विक्रमस्य त्रयोदशशतान्द्याः पूर्वार्धे वाऽनुमीयमानः स दोषावहो न प्रतिभाति । अनेनोपदेशरसायनविवरणरचना युग-नव-रविप्रख्ये वर्षे, चर्चरीविवृतिरचना च वेद-ग्रह-रविवर्षेऽकारीति स्पष्टं समसूचि । चर्चरी( गा. १२ )विवृतौ निजं रसायनविवरणमस्मारि | युगशब्देन द्विकसङ्ख्याग्रहणमपि कर्तुं शक्यत इति विचार्यमाणे चर्चरीविवरणात् प्राग् रसायनविवरणप्रादुर्भावः प्रतिभासते । १ जेसलमेरुभां० सूच्यां प्रबोधोदयवादस्थलपरिचयोऽवलोकनीयः ( अप्रसिद्ध० पृ० २८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy