________________
७
सिद्धान्ताम्बुर्धिकुम्भसम्भवसमः साहित्यलक्ष्मीप्रियः पान्थो व्याकरणाटवीषु तिलको यस्तार्किकाणां व्रजे । वादीन्द्रद्विपभेदपञ्चवदने काव्यं महार्थं वरं यस्मिन् कुर्वति भङ्गिभिर्जडतया माघोऽपि माघायते ॥
यश्चाद्यसंहननकाय इवाधिसेहे गाढोपसर्गभरमस्पृह एव देहे ।
आदाय शोधिमधिपोऽपि च योऽत्र षट् षण्मासान् परं च विकृतीर्बहुशो मुमोच ॥ छन्दो - लक्षण - तर्कशास्त्रविविधालङ्कार वित्कोविदे
पृथ्वीराजसमे कुतूहलगृहे श्रीगुर्जरत्रावनौ । तर्कन्यायवरोपपत्तिसहितैः सिद्धान्तवाक्यैस्तथा
"
तत्त्वं प्रोच्य महीतले विधिपथं प्रोत्सर्पयामास यः ॥ - अभयकुमारचरिते ( प्रश० लो० १६ - १९ )
वि. सं. १३१७ वर्षे जिनेश्वरसूरिशिष्यो लक्ष्मीतिलकोपाध्यायः-“ येनामुद्यन्त सद्यः प्रतिनृपतिसभं वादिनां वक्त्रगेहा उन्मुद्राणि त्वभूवंस्तदपमलयशोगीतिकोलाहलेन । अस्यो (न्यो ) न्याशाङ्गनानां शिवपदकमलाकार्मणं यश्च मुद्रां गच्छस्यादत्त सोऽभूज्जिनपतिजिनराट् तत्कपट्टेऽभिषिक्तः ॥ " - श्रावकधर्मप्रकरणवृत्तौ ( प्रश० श्लो० ७ )
Jain Education International
वि. सं. १३२० वर्षे जिनेश्वरसूरिशिष्यः प्रबोधचन्द्रगणिः “ येषां गीर्वाणवाणीलहरिभिरभितः पूर्यमाणाऽखिलाऽपि श्री पृथ्वीराज पृथ्वीपतिसमितिरिहाश्चर्यसिन्धौ ममज्ज । चित्रं तत्रापि शत्रोर्वपुषि ववृधिरे तर्ष - मालिन्य – तापाः
पापानां वा किमेतज्जिनपतिगुरवस्तेऽथ पट्टे बभूवुः ॥" —सन्देहदोलावलिबृहद्वृत्तौ ।
वि. सं. १३२६ ( ? ) वर्षे सङ्घ-पुरजिनालयाशलालेखे“ ततो जिनपतिः प्रभुर्गुरुवतंसचूडामणि
For Private & Personal Use Only
www.jainelibrary.org