SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ वि. सं. १२९५ वर्षे जिनपतिसूरिशिष्यः सुमतिगाणिः" तस्याभूद् भूपर्णोद्भटमुकुटतटीकोटिघृष्टांन्हिपद्मः शिष्यः शस्यो बुधौर्जिनपतिरिति सन्नामतः सूरिरुच्चैः । विख्यातः क्षोणिपीठे सुविहितयतिराट् [राज]चक्राधिनाथ-- श्छन्दोऽलङ्कार-तर्कप्रमुखनिखिलसद्ग्रन्थविस्तारितार्थः ।। प्रतिदिनमपि सिद्धिप्रेयसीसङ्गसौख्या नुगतनवकथास्वाक्षिप्तचित्तं निरीक्ष्य । क्षणमपि दयितं न ज्ञान-चारित्रलक्ष्म्यौ मुमुचतुरुदितात्म[जात]भीत्येव यं च ॥" -गणधरसार्धशतक-बृहद्वृत्तौ (प्रश०) वि. सं. १३०७ वर्षे जिनेश्वरसूरिशिष्यः पूर्णकलशगणिः" विज्ञाः केचन लक्षणेऽथ कतिचित् तर्के परेऽप्यागमे काव्येऽन्ये च समग्रशास्त्रचतुराः प्रायेण नामून् विना । व्यक्तुं नूनमिदं विधिर्बहुविधैः शास्त्रैर्विजाप्यासमान् प्राज्ञान् राजसभास्वलम्भयदतो यान् जैत्रपत्राण्यरम् ।। भृङ्गायमाणपदपुष्करराजहंसा वर्ण-प्रतापजितपुष्करराजहंसाः । श्रीजैनचन्द्रपदपक्कजराजहंसास्ते जज्ञिरे जिनपतिप्रभवोऽच्छ( थ ) हंसाः ॥" -प्राकृतद्वयाश्रयवृत्तौ (प्रश० श्लो० ३, ४ ) वि. सं. १३१२ वर्षे जिनेश्वरसूरिशिष्योऽभयतिलकगाणः" आरुह्य क्षितिभृत्समाचतुरिकां निर्जित्य दुर्वादिन___ स्तेजोऽग्नौ ज्वलिते लसत्यनुदिशं नादे यशोदुन्दुभेः । पाणौकृत्य जयश्रियो गुरुमहैर्यः सारदां मातरं पृथ्वी चोन्मुदितां व्यधाजिनपतिः सूरिः स जज्ञे ततः ॥" -सं. द्वयाश्रयवृत्तौ ( प्रश० श्लो० ७) वि. सं. १३१२ वर्षे जिनेश्वरसूरिशिष्यश्चन्द्रतिलकोपाध्यायः" तत्पट्टे श्रीजिनपतिसूरिर्जज्ञेऽथ पञ्चलिङ्गी यः श्रीसलपट्टकमलं विवृत्य चक्रे बुधाश्चर्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy