________________
व्याख्याकारः
(१)
जिनपालोपाध्यायः। अपभ्रंशकाव्यत्रय्यन्तर्गतस्य चर्चयुपदेशरसायनाख्यकाव्यद्वयस्य व्याख्यातुर्जिनपालस्य परिचितिरप्यत्रौचितीमञ्चति । विवृतिकर्ताऽनेनैतदन्ते निजं जिनपतिसूरेः शिष्यत्वं जिनेश्वरसूरेश्च निदेशवर्तित्वं स्पष्टं पर्यचायि । एतयोर्जिनपालस्यापि च संक्षिप्तपरिचयस्त्वस्माभिरेन्यत्राकारीति विशेषतो निवेदनीयमेवात्र निवेद्यते ।
जिनपति-जिनेश्वरसूरिद्वयस्यापि प्रशस्तगुणगणप्रशस्तिः प्रचकाशे तत्परम्पराजातैस्तच्छिष्य-प्रशिष्यप्रभृतिभिः, परन्तु भूमिकाया अतिविस्तारभयात् तत्प्रदर्शने नोत्सहे; केवलं प्रस्तुतव्याख्याकारगुरोजिनपतिसूरेः परिचितिं किञ्चिदुद्धरामि । तथाहि_ वि. सं. १२८५ वर्षे जिनपतिसूरिशिष्यः पूर्णभद्रगणिः
" यैर्वादीन्द्रकरीन्द्रदर्पदलने सिंहैरिव स्फूर्जितं
मोहध्वान्तविनाशने भुवि सदा सूर्यैरिवोज्जृम्भितम् । भव्यप्राणिसमूहकैरववने चन्द्ररिवेहोद्गतं ते श्रीमज्जिनपत्यभिख्यगुरवोऽमूवन् यतीशोत्तमाः ॥"
-धन्य-शालिभद्रचरित्रे (प्रश० श्लो०८) वि. सं. १२९३ वर्षे प्रस्तुतो जिनपालोपाध्यायः-- " नानासद्वादकेलीविदलितविलसन्मानशैलः परेषां
रेखां यः प्राप विद्वत्स्वनितरसुलभा सर्वविद्यावतंसः । दृष्टान्तत्वं चरित्रिष्वलभत कुमतध्वान्तविध्वंसहसः स श्रीमान् सूरिराजो जिनपतिरभवत् तत्पदालङ्करिष्णुः ॥"
-द्वादशकुलकविवरणे (प्रश० श्लो० ५)
१ जेसलमेरुमा० सूच्याम् ( अप्रसिद्ध० पृ. २८, ३६, ४०, ४१; नामसूची)
२ तत्पदेनासाग्रेऽपि चोपरिपरिचायितजिनदत्तसूरेः पट्टधरो जिनचन्द्रसूरिविज्ञेयः; यस्य जन्म वि. सं. ११९१ वर्षे, सूरिपदं वि. सं. १२११ वर्षे, स्वर्गमनं च वि. सं. १२२३ वर्षे खरतरगच्छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org