________________
९ सुगुरुपारतन्त्र्यम् (प्रा.) गा. २१ १० *विंशिका ११ विघ्नविनाशिस्तोत्रम् (प्रा.) गा. १४ १२ *उपदेशकुलकम् १३* अवस्थाकुलकम् . १४ *श्रुतस्तवः १५* अध्यात्मगीतानि
९ " सच्चरियाणमहीणं सुगुरूणं पारतंतमुव्वहइ ।
जयउ जिणदत्तसूरी सिरिनिलओ पणयमुणितिलओ ॥" इत्यन्तिमगाथोपेतमेतत्रैकशः प्रसिद्धम् । अस्य शतद्वयश्लोकप्रमाणा वृत्तिरप्युपलभ्यते । वृत्तिकारो जयसागरगणिरिति जैनग्रन्थावल्यामसूचि । तत्र च तद्वत्तिरचनासमयो वि. सं. १३६८ वषरूपो निर्दिष्टश्चिन्त्यो यतोऽत्र सम्भाव्यमानजयसागरस्य समयो विक्रमस्य पञ्चदशशताब्युत्तरार्धषोडशशताब्दीप्रारम्भरूपः प्रामाणिकः (जे. भां. सूच्यामप्रसिद्ध० पृ०५४ इत्यत्र विलोकनीयम् )
१० अप्रसिद्धषा । अस्या नामोपात्तं गणधरसार्धशतकबृहद्वृत्तौ । अत्र भूमिका (पृ.४४) द्रष्ट्व्या। ११ 'सिग्घमवहरउ' इत्यादिनाऽऽरब्धत्वात् तन्नाम्नैव विशेषतः प्रसिद्धिमधिगतम्, "जिणदत्ताणं सम्मं मन्नति कुणंति जे उ कारंति ।
मणसा वयसा वउसा जयंति साहम्मिया ते वि ॥ जिणदत्तगुणेहिं नाणाइणो सया जे धरंति धारंति ।
दंसियसियवायपहे नमामि साहम्मिया ते वि॥" इत्यन्तिमपद्यसूचितस्वाभिधानमेतदपि स्मरणस्तोत्रं नैकदा प्रकाशितम् । अस्य संक्षिप्ता वृत्तिरप्युपलभ्यते।
१२, १३, १४, १५ क्रमाङ्केषु सूचिता कृतिर्जेसलमेरुदुर्गे भाण्डागारपुस्तिकायां पठ्यते, किन्तु विशिष्टावलोकनं विना नात्र किमपि तद्विषये स्पष्टीकर्तुं शक्यते । तथा च जैनग्रन्थावल्यां जिनदत्तसूरिकृतित्वेन निर्दिष्टाऽपि पट्टावली न तथा, किन्तु सा कविपल्हप्रणीता जिनदत्तसूरिस्तुतिरित्यत्र (परि० ४ ) दर्शनेन प्रतीत भविष्यति पाठकानाम् ।
___ नामसाम्याद वायटीयगच्छीयजिनदत्तसूरिकृतस्यापि शकुनशास्त्रस्य गूर्जरभाषानुवादपुस्तिकायां प्रस्तुतजिनदत्तसूरिप्रतिकृतिं निवेश्य प्रकारान्तरेणास्य सूरेः कृतिः सा इत्यसूचि तदनुवादक-प्रकाशकेन पं. हीरालालेन, तथा च कैश्चित् तच्चरितमत्र संमिश्रितम् , किन्तु तद् भ्रान्तिमूलं प्रतीयते प्रेक्षावताम्।
* अप्रसिद्धग्रन्थसंज्ञापकमेतदभिज्ञानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org