SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ३ चैत्यवन्दनकुलकम् (प्रा.) गा. २८ ४* गणधरसप्ततिः (प्रा.) गा. ७० ५ उपदेशरसायनम् (अप०) गा. ८० ६ चर्चरी (अप०) गा. ४७ ७ कालस्वरूपकुलकम् (अप०) गा. ३२ ८ सर्वाधिष्ठायि(स्मरण)स्तोत्रम् गा. २६ ३ " सव्वन्नूण मयं मएण रहिओ सम्म सया साहए भव्वाणं पुरओ पवाहविरओ निच्छम्म-निम्मच्छरो। सो मे धम्मगुरू सया गुणि-गुरू कल्लाणकारी वरो ___ लग्गो जो जिणदत्त-सोहणपहे नीसेससुक्खावहे ॥" इत्यन्तिमगाथायुक्तमेतद् वि. सं. १३८३ वर्षे जिनकुशलसूरिणा • चतुश्चत्वारिंशच्छतश्लोकपरिमितया वृत्त्या,लब्धिनिधानेन संक्षिप्तटिप्पनेन च व्यभूयत । देववन्दनकुलकं सम्यक्त्वारोपविधिकुलकमित्यादिकाऽस्यापरा संज्ञा ज्ञायते । वृत्ति-टिप्पनसमन्वितमेतत् प्रसिद्धम् । ४ अप्रसिद्धमेतत् । अस्य नामोपलभ्यते गणधरसार्धशतक-वृत्त्यादौ ( अत्र भूमिका द्रष्टव्या पृ. ५१ ) जेसलमेरुदुर्गीयभाण्डागारे १५० क्रमाङ्कपुस्तिकायां प्राप्यतेऽपि । ५ "इय जिणदत्तवएसरसायणु इह-परलोयह सुक्खह भायणु । कणंजलिहिं पियंति जि भव्बई ते हवंति अजरामर सव्वई ॥" इति प्रान्तपद्यपर्यवसितमेतद् वि. सं. १२९४(२) वर्षे जिनपालोपाध्यायेन शतचतुष्टयश्लोकपरिमितया वृत्त्या संयोजितम् । तच्चात्र पूर्वमेव प्रकाश्यते । ६ " इय जुगपवरह सूरिहि सिरिजिणवल्लहह __ नायसमयपरमत्थह बहुजणदुल्लहह । . तसु गुणथुइ बहुमाणिण सिरिजिणदत्तगुरु करइ सु निरुवमु पावइ पउ जिणदत्तगुरु ॥" इत्यन्त्यपद्योपेतैषा जिनपालोपाध्यायेन वि. सं. १२९४ वर्षे विहितया शतत्रयश्लोकप्रमितया वृत्त्या समायोजि । सा चात्र प्रथममेव प्रकाशभावं प्राप्नोति । ७ “ इय जिणदत्तुवएमु जि निसुणहि पढहि गुणहि परियाणवि जि कुणहि । ते निव्वाण-रमणी सहु विलसहि वलिउ न संसारिण सहु मिलिसहि ॥" इति प्रान्तपद्यपर्यवसितं द्वात्रिंशिकारूपमेतत् कुलकं सूरप्रभोपाध्यायसङ्कलितया सार्धशतश्लोकमितया वृत्त्या साकमत्र काव्यत्रय्यां तृतीयत्वेन निवेश्य प्रकाशितम् । उपदेशरूपमप्येतत् 'कालस्वरूपकुलक' इति वृत्तिकाराभिमताभिधया प्राख्यायि । जिनपालोपाध्यायकृताऽस्य वृत्तिः पत्तने विद्यत इति जैनग्रन्थावल्यामसूचि, किन्तु नास्माभिः सा दृष्टा । ८ 'तं जयउ' इत्यादिपदेनोपलक्षितत्वात् तन्नाम्ना विशेषतः प्रसिद्धम् , प्रान्ते च" इय जो पढइ तिसंझ दुस्सझं तस्स नस्थि किं पि जए । जिणदत्ताणाइ ठिओ सुनिट्ठियहो सुही होइ ॥" इत्यनया गाथया समुपेतमेतन्नैकत्र मुद्रितम् । अस्य वृत्तिस्तु जयसागरोपाध्यायेन वि. सं. १४९५ (!) वर्षे विनिर्मिताऽप्रसिद्धा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy