________________
वि. सं. १६५४ वर्षे ज्ञानविमलोपाध्या यः" तत्पपूर्वाचलतिग्मरश्मयो युगप्रधाना जिनदत्तसूरयः । दिदीपिरे श्रावकलक्षबोधकाः सुरासुरैः संस्तुतपादपङ्कजाः ॥"
-शब्दप्रभेदवृत्तौ । क्षमाकल्याणादिकृतायामर्वाचीनायां खरतरगच्छपट्टावल्यामन्यत्रापि च प्राप्यते प्रस्तुतस्य सूरिवर्यस्य समुज्ज्वलयशःसंवलितमद्भुतमन्यदपि सच्चरितम्, किन्तु कवि. समयसामीप्यसम्भवि पूर्वतनमाधकं प्रामाणिकमिति तदेवात्र प्रादर्शि, समर्थितं चान्यप्रामाणिकप्राज्ञानामभिप्रेतैः। विस्तरभयात् तु विरम्यतेऽधिकवक्तव्यात् । विशेषजिज्ञासुना तदप्यवलोकनीयम् । सूरेः स्वर्गमनसमय-स्थलादिनिर्देशस्तनेत्थमसूचि
___“ अथैवंविधाः क्षत्रिय-ब्राह्मणादिकुलीनलक्षश्राद्धप्रतिबोधका जलभ्रमोपरि कम्बलास्तरणादिप्रकारेण पञ्चनदीसाधकाः सन्देहदोलावल्याद्यनेकग्रन्थविधायकाः परकायप्रवेशिन्यादिविविधविद्यासम्पन्नाः परोपकारकारिणः परमयशः-सौभाग्यधारिणः श्रीखरतरगच्छनायका महाप्रभावकाः श्रीजिनदत्तसूरयः संवत् १२११ आषाढसुदि एकादश्यां अजमेरुनगरेऽनशनं कृत्वा स्वर्ग गताः ॥ ४८ ॥” ख. पट्टावल्याम् ।
ग्रन्थरचना. प्राकृतापभ्रंशादिभाषायां पद्यप्रमाणपरिगणनया लघवोऽप्यर्थतोऽतिगम्भीरा देवगुरुस्तोत्र-चैत्यविधि-धर्मविधिप्रतिपादका विविधोपदेशपेशला निम्नसूचिता ग्रन्थाः प्रस्तुतजिनदत्तसूरिप्रणीता ज्ञाताः सन्ति । १ गणधरसार्धशतकम् (प्रा.) गा. १५० २ सन्देहदोलावली (प्रा.) गा. १५०
१ “जिणदत्तगणिगुणसयं सपण्णयं सोमचंदविंबं व ।
____ भव्वेहिं भणिज्जतं भव-रविसंतावमवहरउ ॥” इति प्रान्तपद्योपेतमेतदत्र (परि० २) प्रादर्शि । अस्य द्वादशसहस्रश्लोकपरिमिता बृहद्वत्तिः सुमतिगणिना वि. मं. १२९५ वर्षे निरमायि (जे. भां. सूची क्र. ३१३-३१५; अप्रसिद्ध० पृ. ५०)
एतस्य षोडशशतश्लोकप्राया संक्षिप्ता वृत्तिः सर्वराजगणिना विक्रमीयचतुर्दशशताब्द्यां सङ्कलिता, मुद्रिता । बृहद्वत्तेश्वाचार्यचरितोद्धारश्चारित्रसिंहगणिनाऽकारि, प्रसिद्धः ।
२" इय कइवयसंसयपय-पण्हुत्तरपयरणं समासेणं ।।
भणियं जुगपवरागम-जिणवल्लहसूरि-सीसेण ॥" इति प्रान्तगाथापरिकलितं संशयपदप्रश्नोत्तरसंझकमेतद् वि० सं० १३२० वर्षे प्रबोधचन्द्रगणिना सार्धचतु:सहस्रश्लोकप्रमाणया बृहद्वत्त्या समयोजि । एतस्य लधुवृत्तिर्जयसागरगणिना सार्धसहस्रश्लोकप्राया वि० सं० १४९५(2) वर्षे व्यरचि । द्वे अपि प्रकाशिते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org