SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मुक्तासारसरस्वती जनपदान् भव्यानभव्याश्रयं तं श्रीमज्जिनदत्तसूरिसुगुरुं चित्ते निधायाधुना ॥" -रघुवंशवृत्तौ ( श्लो० ३) " प्रौढं प्रौढयुगप्रधानपदसाम्राज्यं प्रतीतं पुरा देवोक्त्या भुवि नागदेवभविकश्राद्धस्य साक्षात् पुरः। योगिन्योऽपि च येन मन्त्रमहिमप्रागल्भ्यतो जिग्यिरे . स्तुत्वा श्रीजिनदत्तसूरिमनघं तीव्रप्रतापारुणम् ॥" -दमयन्तीचम्पूवृत्तौ । " तत्पट्टेऽभूच्चतुःषष्टियोगिनीनां प्रसाधकः । युगप्रधानतामाप्तः सूरिः श्रीजिनदत्तराट् ॥ यन्नाममन्त्रस्मरणात् सम्प्रत्यपि विलोक्यते । तडित्पातादिकष्टौधो ध्वस्यमानः क्षणाद् भुवि ॥" -सम्बोधसप्ततिकावृत्तौ (प्रश० श्लो० ९-१०) १ "श्रीमदकब्बरराजाधिराजलब्धप्रसादसौभाग्ये । राज्यं शासति जनताऽऽनन्दकरे न्यायवृत्तिधरे । श्रीराजसिंहभूभुजि निजभुजबलनिर्जितारिनृपराजे । सन्ध्यादिगुणविचक्षणमन्त्रीश्वरकर्मचन्द्रवरे ॥ विक्रमतो रस-हरिभुज-रस-शशिवर्षे जनोत्सवोत्कर्षे । श्रीमद्विक्रमनगरे विनिर्मिता विमलमतिगम्या ॥" -रघुवंशवृत्तिः (प्रश० श्लो. १०-१२) २ " श्रीविक्रमवंशोद्भवसद्विक्रमराजसिंहनृपराज्ये । सत्कर्मकर्मचन्द्राभिधधीसखधुर्यसन्धार्ये ॥ श्रीमद्विक्रमभूपतेः स्वरसरस्वत्-तर्क-शक्रप्रमा ख्यातायां शरदि प्रमोदविसरभ्राजिष्णुपौराकुले श्रीमेरुत्नकनाम्नि भद्रनगरेऽर्हचैत्यशोभाधरे चक्रे श्रीदमयन्त्युदारचरिते टीका महार्थो सुधीः ॥ अकबरनृपाधिनृपतौ विजयिनि शर-भुवन-सस्मिते वर्षे । श्रीमल्लाभपुरीयं प्राकाशि परा पुरस्सुधियाम् ॥" -दमयन्तीचम्पूवृत्तिः( प्रश० श्लो. १५-१६,९) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy