________________
६३
समकालीनसूरयः। प्रस्तुतजिनदत्तसूरि-जीवनसमये विक्रमस्य द्वादशशताब्द्यां त्रयोदशशताब्द्याश्च प्रथमचरणे सत्तां बिभ्राणाः प्रभूताः प्रौढाः सूरिपुङ्गवाः समजनिषत, सूर्यैरिव यैर्जिनप्रवचन-गगनाङ्गणं स्वप्रतिभया प्रायोति ।
___ तत्र च केषाञ्चिदुल्लेखोऽत्राजनि । तदितरेषां जिनभद्रसूरि-देवचन्द्रसूरि-देवभद्रसूरि-धनेश्वरसूरि-ननसूरि-पार्श्वदेवगणि (श्रीचन्द्रसूरि)-महेन्द्रसूरि-मुनिचन्द्रसूरि-यशोदेवसूरि-यशोदेवोपाध्याय-रत्नप्रभसूरि-रामचन्द्रसूरि-रामदेवगाण-वर्धमानसूरि-शान्तिसूरि-सिद्धसूरि-हरिभद्रसूरि (१-२)-हेमचन्द्रसूरि (१-२) प्रभृतीनां संक्षिप्तपरिचयस्त्वस्माभिरन्यत्र (जे. मां. सूच्याम् , अप्रसिद्ध ० ) अकारि । ___तथा चान्येषामाम्रदेवसूरि-चक्रेश्वरसूरि-चन्द्रप्रभसूरि-चन्द्रसेनसूरि-विजयसिंहसूरि (१-२)-श्रीचन्द्रसूरि-हेमचन्द्रसूरिप्रभृतीनां परिचयः प्रो० पिटर्सनादिसङ्कलितरिपोर्टपुस्तकादिपर्यवलोकनेन, वादिदेवसूरि-वीराचार्य-हेमचन्द्रसूरिप्रमुखाणां चरितं प्रभावकचरितादिप्रेक्षणेन, लक्ष्मणगण्यादीनां चापरेषां परिचयस्तत्तत्कृतिसुपार्श्वचरितादिप्रशस्तिप्रान्ताशनिरीक्षणेनावगंस्यते । केषाञ्चिच्च परिचयः प्रकाश्यमानपत्तनीयजैनभाण्डागारीयग्रन्थसूच्यादावपि प्रदर्शयिष्यत इति नेह तदर्थ प्रयत्यते ।
केवलं जिनदत्तसूरेर्वादिदेवसूरि-हेमचन्द्रसूरिभ्यां साकं जन्म-दीक्षाऽऽदिसमयस्थलादिविषयकं समवक्तव्यमत्र कोष्ठ के प्रदर्य सन्तुष्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org