SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ केनाप्यस्खलितप्रतापगरुडो यस्य त्रिलोक्यां स्फुरंस्त्रोटं त्रोटमपास्यति श्रितवतां विघ्नाहिपाशान् क्षणात् ॥” -संस्कृतद्वयाश्रयवृत्तौ (प्रश० श्लो० ५ " आसीत् पदेऽस्य जिनदत्तगुरुर्भटेन येनादधे विधिपथः सुवहः खिलोऽपि । " -न्यायालङ्कारप्रान्ते। वि. सं. १३१२ वर्षे चन्द्रतिलकोपाध्यायः-- " ततोऽजनि श्रीजिनदत्तमुरिर्येनेह कल्याणमदायि भूरि । यः पारतन्त्र्यं विषयं विधिं च प्रकाशयामास विशेषतोऽपि ॥ भव्यान् सार्ध कुटुम्बैः शतश उपकृतौ कर्मठोऽबोधयद् यो यस्याज्ञामत्र देवा अपि शिरसि दधुर्भक्तिभारेण नम्राः । यन्नामामानधामाधरितसुरवर-क्षोणिजन्माभिमानं स्मर्तुं बद्धादराणां दलयति विपदोऽद्यापि दत्ते च भद्रम् ॥ " -अभयकुमारचरिते (प्रश० श्लो० १२-१३) वि. सं. १३१७ वर्षे लक्ष्मीतिलकगणि:-- " चिन्तामणिः कल्पतरुर्वराको कुर्वन्ति भव्याः किमु कामगव्या ? । प्रसीदतु श्रीजिनदत्तमूरिः सर्वे पदा हस्तिपदे प्रविष्टाः ॥" " तत्पट्टे जिनदत्तमूरिरुदगाद् यः सन्ततं दैवतैः सेव्याहि शमद्भुतैरतिशयैस्तैस्तैः सदाऽलङ्कृतः । आख्यातोऽम्बिकया स्वयं युगवरस्तीर्थङ्करस्य प्रति लुप्तेऽप्यग्र्यपदे ततश्च जिन इत्याख्यां दधौ सान्वयाम् ॥" -जिनेश्वरसूरीयश्रावकधर्मवृत्तौ (प्रा० श्लो० ५, प्रश० श्लो० ५) वि. सं. १३२० वर्षे प्रबोधचन्द्रगणिः" स्वैरं यैर्विहरभिरत्र भुवने सर्वज्ञकल्पैस्तथा___ऽनन्यव्याहतदेशनालहरिभिर्मिथ्यात्वमुन्मूलितम् । एते सम्प्रति संशयप्रभृतयस्तन्मूलभूता यथा निर्जीवा इव नोच्छ्वसन्त्यपि मनाक् कालेऽनुकूलेऽपि हि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy