________________
तैः पूज्यपादैजिनदत्तमूरिभिः कृतेऽत्र शास्त्रे जिनशासनानुगे । संन्देहदोलावलिनाम्नि लेशतः करोमि वृत्तिं स्वगुरूपदेशतः ॥" " तत्पट्टे जिनदत्तमूरिरभवन्मार्तण्डचण्डप्रभो
यस्मिन् विष्टपशर्मणे त्वत इतः स्वच्छन्दसा भ्राम्यति । तज्ज्योतिर्गलहस्तिता घनतमःपिण्डा इव द्विड्-गजा जग्मुर्दिक्षु विदिक्षु मङ्वभिभवं वक्तुं तु दिग्दन्तिनाम् ॥ "
--जिनदत्तसूरीयसन्देहदोलावल्या बृहद्वृत्तौ । वि. सं. १३२६ (१) वर्षीये जिनमन्दिर प्रशस्तिशिलालेखे-- " तस्मिन् महात्मनि समेयुषि नाकलोकं
तीर्थ वभार भगवान् जिनदत्तमुरिः। नामापि यस्य बत पार्श्वविभोरिवाशु
सर्व भयं हरति मंगलमातनोति ॥ १०३ ॥ यस्मिन्नंजन गभासि तरुणांभोभृत्ककुत्कुंजर
श्रीलुटाकगभीरधीरमधुरध्वाने वृषं जल्पति । पीयूषैरिव पूर्यमाणमनसो भव्याः प्रजह्लादिरे विश्वे वादिगजा गलन्मदभरा द्राक् कांदिशीक्यं दधुः ॥१०४॥"
---वीजापुरवृत्तान्ते (पृ. ४) १ " इह हि किलातिशायिज्ञानिभिर्भगवद्भिः [ भट्टारक ] श्रीजिनदत्तसूरिभिदुःषमाकालमाहात्म्याविभवदसन्मार्गसंसर्गोल्लसदनेकसंशयशङ्कापङ्ककलङ्कितानि भविष्यद्धार्मिकलोकधर्मानुष्टानानि मा भूवन्निति परोपकाररसिकतया स्वोत्प्रेक्षितसम्भाव्यप्रश्नमालानुसारि सारोत्तराभिधायकं संशयपदप्रश्नोत्तरनामकं प्रकरणं चक्रे तचेह ‘सन्देहदोलावली' इति नाम्ना प्रसिद्धम् ।।
एवं च 'श्रीवीन(ठ)हिंडाभिधानपत्तनवास्तव्यया कयाचित् खरतरपरमश्राविकया प्रतिदिनमात्मगुरूपदिष्टधर्मानुष्ठानान्यनुतिष्ठन्त्या स्वव्यापरणाननुरूपगच्छान्तरीयश्रावकव्यापरणदर्शनात् तथाविधसुगुरुसम्पर्काभावाच्च समुद्भवन्तः सन्देहाः सम्यगुत्तरलाभार्थ विज्ञप्तिकायां लिखित्वा दूरदेशप्रवेशपेशलितानार्यप्रायकु[ जनमनसां श्रीअम्बिकादेवताप्रकटितयुगप्रधानत्वालङ्कृतनामधेयानां श्रीजिनदत्तसूरीणां पादमूले प्रेषिताः । श्रीमत्पूज्यैश्च वाचनानन्तरमेव तस्या भविष्यल्लोकानामप्युपकाराय सरलोक्तित्वात् सुगमार्थ सार्धशतगाथाप्रमाणमेतत् प्रकरणं विरचितम्' इत्येषाऽपि प्रसिद्धिवृद्धपरम्परया निशम्यमाना समूला भवतीति ।"
-सन्देहदोलावलीबृहत्ती प्रबोधचन्द्रगणिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org