SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ " तैच्छिष्यो जिनदत्तसूरिरभवच्चारित्रिणामग्रणी र्यो मध्येसमयं विधिं च विषयं सत्पारतन्त्र्यं तथा । एतां सिद्धपदत्रयीं त्रिपथगां लब्ध्वा यथा मातृका व्याशिष्टाहितलक्षणः कृतमुखो विश्वं यथा शाब्दिकः ॥ लोला दोलाधिरोहात् कननशिखरिणः कन्दरोत्सङ्गरङ्ग क्षोणीमधूणशोभावधिमधिशयिताः पूर्णहृन्नेत्र-कर्णाः । जीवातून् श्रोत्रवृत्तेनिशमनमनसामन्तरङ्ग न मातः शङ्के गानच्छलेन त्रिदिवयुवतयो यद्गुणानुगिरन्ति ॥" -पञ्चलिङ्गीविवरणप्रान्ते (श्लो० ९-१०) •"जज्ञे श्रीजिनदत्तयत्यधिपतिः शिष्यस्ततस्तस्य यः सिद्धान्ताद् विधि-पारतन्त्र्य-विषयाभिख्यामभिख्यान्वितः । आसाद्य त्रिपदी विधुर्बलिमिव व्यध्वं वृषध्वंसनं चिच्छेद प्रतिपन्थिनं सुमनसां व्यक्तक्रमप्रक्रमः ॥ लावण्यावसथो यथा पतिरपां नो पर्वतक्षोभितः शृङ्गीव द्युसदां सुवर्णसुभगो नोच्चैः सुरागाश्रयः । यः कल्पद्रुरिव द्रुतार्पितफलो नोद्यत्सदापल्लवः साम्यं यस्य तथापि शस्ययशसस्तैः कुर्वते बालिशाः ॥" -सङ्घपट्टकविवृतिप्रान्ते । वि. सं. १२८५ वर्षे पूर्णभद्रगणिः " भास्वांस्ततः समुदगाज्जिनदत्तसूरि भव्यारविन्दचयबोधविधानदक्षः । गावः स्फुरन्ति विधिमार्गविकासनैकतानास्तमोविदलनप्रवणा यदीयाः ॥" -धन्य-शालिभद्रचरित्रे ( जे. भां. सूची पृ. २) वि. सं. १२९३ वर्षे जिनपालगणिः " जिनदत्त इति श्रीमान् सूरिस्तत्पदभूषणः । जज्ञे स ज्ञानमाणिक्यरोहणो विधिपोषणः ॥” -द्वादशकुलकविवरणप्रान्ते । १ तच्छब्देनात्राग्रेऽपि च पूर्वोक्तजिनवल्लभसूरेः परामर्शः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy