________________
धारानगर्या लिखितानि, ब्रह्मचन्द्रगणिना च वि. सं. ११७१ वर्षे पत्तने जयसिंहदेवराज्ये लिखितानि कविपल्हप्रणीतानि पट्टावली( जिनदत्तसूरिस्तुति )पद्यानि त्वत्र परिशिष्ट( ४ )प्रान्ते परिनिदर्शितानि पाठकैः प्रत्यक्षीकरिष्यन्ते ।
श्रीमतश्चास्य सूरेः शिष्येण स्थिरचन्द्रगणिना वि. सं. १२०७ वर्षेऽजयमेरौ दुर्गे पल्लीभङ्गे पञ्चाशकवृत्तेस्त्रुटितपुस्तकं गृहीत्वा गतं स्वयं लिखितमासीत् , तदपि विद्यते जेसलमेरुदुर्गभाण्डागारे ।
अपवर्गनाममालाकारो जिनप्रियविनेयो जिनभद्रसूरिर्जिनवल्लभ-जिनदत्तसूरिसेवकत्वं निजं न्यदर्शयत् ।।
पूर्वपरिचायितजिनवल्लभसूरेः पट्टप्रतिष्ठितेनानेन जिनदत्तसूरिणा निजपट्टघरपदवी जिनचन्द्रसूरये स्वयं व्यतारीत्यादीतिवृत्तोऽप्युपलभ्यते । यस्य विनेयेन जिनमत( ? पति)यतिना वि. सं. १२१५ वर्षे विलिखिता राक्षसकाव्यटीकाऽऽदिपुस्तिका जेसलमेरुदुर्गभाण्डागारे दृश्यते ।
सूरिवर्यस्यास्य शिष्य-प्रशिष्यपरम्पराप्रोद्भूतैः प्रभूतैः पण्डितप्रकाण्डैः प्रणीतेषु प्रचुरपुस्तक-प्रतिमा-प्रासाद-प्रशस्तिप्रभृतिषु प्रादुष्कृतं प्रविततमेतदीयं प्रोज्ज्वलं सुयशः परिपठ्यते । प्रेक्षावतां प्रीतये ततः प्रोद्धृत्यात्र किञ्चित् प्रदश्यते । तथाहि--
वि. सं. १२२३-७७. वर्षेषु सूरिपदे विद्यमानो जिनदत्तरिपट्टधरजिनचन्द्रसरिशिष्यो जिनपतिसूरिः
१ जे. भा. सूची (पृ. ६)। २ जे. भां. सूची (पृ. ४५)। ३ " पूज्यश्रीजिनवल्लभप्रभुपदाध्यारोहरोहद्यशः
सूरिश्रीजिनदत्तदत्तपदवीराजीविनीभास्वतः । शिष्यः श्रीजिनचन्द्रसूरिसुगुरोविद्यासरस्वानिति व्यध्वध्वंसविधिय॑धाजिनपतिः सूरिः प्रबोधोदयम्॥"
-जिनपतिसूरिः ( जे. भां. सूची पृ. ६.) " बाल्ये श्रीजिनदत्तसूरिविभुभिर्ये दीक्षिताः शिक्षिता
दत्त्वाऽऽचार्यपदं स्वयं निजपदे तैरेव संस्थापिताः । ते श्रीमन्जिनचन्द्रसूरिसुगुरवोऽपूर्वेन्दुबिम्बोपमा न ग्रस्तास्तमसा कलङ्कविकलाः क्षोणौ बभूवुस्ततः ॥"
--पूर्णभद्रगणिः ( जे. भां. सूची पृ. २) ४ जे. गां. सूची (अप्रसिद्ध० पृ. ५९) द्रष्टव्या।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org