________________
“सोऽभूदभयदेवाख्यः, सूरिः श्रीजिनवल्लभः । ज्ञान-दर्शन--चारित्रपात्रं भेजे ततो भृशम् ॥ येन चण्डाऽपि चामुण्डा दर्शनं प्रापिता गुणैः । कर्ता पिण्डविशुद्धयादिशास्त्राणां तत्त्वशालिनाम् ॥"
-सम्बोधसप्ततिवृत्तौ ( प्रश० श्लो० ७-८ ) 'वि. सं. १६५४ वर्षे ज्ञानविमलोपाध्यायः" "तत्पट्टे च विरेजुः कर्मग्रन्थादिशास्त्रकर्तारः । वैराग्यैकनिधानाः श्रीमज्जिनवल्लभाचार्याः ॥"
-शब्दभेदप्रकाशटीकायाम् । इत्याद्यवदातावलोकनेन प्रस्तुतापभ्रंशकाव्यत्रयीप्रदर्शितविधिपथप्रचारयितुरेतत्काव्यत्रयीकर्तृजिनदत्तसूरिपूज्यस्य जिनवल्लभसूरेः सम्यक् परिचयो भविष्यतीति विस्तारभयाद् विरम्यते ।
जिनदत्तसूरिः। सुप्रसिद्धिमधिगतस्य परमपितामह( बड़ा दादा )प्रख्यया श्वेताम्बरजैनानुयायिभिर्विशेषतः खरतरगच्छीयैः प्रभूतपुरादिषु भक्तिप्राग्भारेणेदानीमपि स्तूप-प्रतिमा-प्रतिकृति-पादुकाप्रभृतिप्रतिष्ठापनपूर्व प्रपूज्यमानस्य चतुरचित्तचमत्कृतकारिचारुचरितस्य प्रस्तुतापभ्रंशकाव्यत्रयीप्रणेतुर्जिनदत्तसूरेः परिचयः साम्प्रतं साम्प्रत इति स एव प्रस्तूयते।
प्रस्तुतसूरिणा स्वगुर्वादेः स्वीयविद्वत्ताऽऽदेश्च प्रकटाप्रकटरूपः परिचयः स्वयमपि समकारि स्वकीयकृतिसन्दर्भेषु । यन्मध्यादेषा काव्यत्रयी त्वत्र प्रत्यक्षा तथा च तस्कृतिरूपं गणधरसार्धशतकं गुरुपारतन्त्र्यं नाम ग्रन्थद्वयमप्यत्र परिशिष्टप्रदर्शितमुपयुक्तं प्रेक्ष्यते।
प्रदृश्यतेऽद्यापि प्रस्तुतस्य सूरेनिशीथचूर्णादि पुस्तकं प्रतिकृत्यौपवस्त्रप्रमुखं च जेसलमेरुदुर्गादौ । किञ्चैतत्सूरिशिष्येण जिनरक्षितसाधुना वि. सं. ११७० वर्षे
१ श्रीमद्विकमनगरे राजच्छ्रीराजसिंहनृपराज्ये । सल्लोकचक्रवाकप्रमोदसूर्योदये सम्यक् ॥ चतुराननवदनेन्द्रिय-रस-वसुधासंमिते लसद्वर्षे । श्रीमद्विक्रमनृपतौ निक्रान्तेऽतीव कृतवर्षे ।
-P. P. २, १२८ २ जेसलमेरुभां० सूची (पृ. २३, ३१; अप्रसिद्ध० पृ. ५० ) विलोकनीया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org