________________
१८
वल्लभगणिना पादयोर्निपत्य भणितम् -' यथा श्रीपूज्यपादा आज्ञापयन्ति, तथैव निश्चितं प्रवर्तिष्ये ' ।
प्रधानदिने चलितो यथाऽऽगतमार्गेण पुनर्मरुकोट्टे प्राप्तः । आगच्छता सिद्धान्तानुसारेण देवगृहे विधिलिलिखे । येन विधिनाऽविधिचैत्यमपि मुक्तिसाधनं विधिचैत्यं स्यात् । स चायम् —
दीक्षागुरुमीलनम्, मार्गे विधि- प्रकाश:
८८
अत्रोत्सूत्रजनक्रमो न च न च स्नात्रं रजन्यां सदा साधूनां ममताऽऽश्रयो न च न च स्त्रीणां प्रवेशो निशि । जाति - ज्ञातिकदाग्रहो न च न च श्राद्धेषु ताम्बूलमि
त्याज्ञाऽत्रेयमनिश्रिते विधिकृते श्रीजैन चैत्यालये ॥ १ ॥ " इत्यादिविधिर्विधेयो येन सर्वे चैत्यवन्दनाद्यनुष्ठानं मुक्तये सम्पद्यत इति । ततोऽसौ स्वगुरुसमीपे गन्तुं प्रवृत्तः प्राप्तो माइयडग्रामे आसिका दुर्गादर्वाक् क्रोशत्रये स्थितः । तत्रैव गुरुमीलनाय पुरुषः प्रेषितस्तस्य हस्ते लेखो दत्तो यथा - ' युष्मत्प्रसादेन सुगुरुसमीपे वाचनां गृहीत्वा माइयडग्रामेऽहं समागतोऽस्मि । पूज्यैः प्रसादं कृत्वाऽत्रैवागत्य मम मीलनीयम् ।' ततो गुरुभिरज्ञायि - ' किमिति जिनवल्लभेनेत्थं निर्दिष्टम् ?, नात्रागतोऽभवत्' । ततो द्वितीयदिने सकललोकेन सार्धं समायात आचार्यः, अभिमुखं गतो जिनवल्लभः प्रणतो गुरुः, पृष्टा क्षेमवार्ता गुरुणा, कथिता यथोक्ता सर्वाऽपि वार्ता । तेन ब्राह्मणसमाधाननिमित्तं मेघादिस्वरूपाणि तथा ज्योतिषबलेन भणितानि कानिचिद् यथा गुरोरप्याश्चर्यकारीणि जातानि । भूतपूर्वकस्तद्वदुपचारः' इति न्यायाद् गुरोरित्युक्तम् ।
“
[ ततः ] पृष्टो गुरुणा - ' किमिति मध्ये त्वं नागतः ?' | जिनवल्लभगणिना ऽभिहितम्—— भगवन् ! सुगुरुमुखाज्जिनवचनामृतं पीत्वा कथमचैत्यवासत्यागः धुना दुर्गतिगुप्तावात्मनः समुपचितपाशं चैत्यवासं विषवृक्षसदृशं सेवितुमिच्छामि ? ।' ततो गुरुणा भणितम्- 'भो जिनवल्लभ ! मयेदं चिन्तितमासीद् यत् तुभ्यं स्वपदं दत्त्वा त्वयि स्वगच्छ - देवगृह - श्रावकादिचिन्तां निवेश्य पश्चात् स्वयं सद्गुरुपार्श्वे वसतिमार्गमङ्गीकरिष्ये' । ततो जिनवल्लभगणिना विकस्वरवदनारविन्देन भणितम्–“भगवन् ! अतीव शोभनमेतद्, विवेकस्य हीदमेव फलम्, यद् हेयपरित्यागेनोपादेयमुपादीयते । तर्हि समकमेव सुगुरुसमीपे गम्यते । गुरुणेषन्निःश्वस्य प्रत्यपादि यदुत - 'वत्स ! ईदृशी निःस्पृहता नास्त्यस्माकम्, यया चिन्ताकरणसमर्थ पुरुषं विना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org