________________
मध्येनाणहिल्लपाटकं गच्छता रात्रौ तत्र मरुकोट्टे माणश्रावककारितजिनभवने प्रतिष्ठा विदधे ।
तत: पत्तने प्राप्तः, श्रीअभयदेवसृरिवसतिं पृष्ट्वा प्रविष्टः । तत्र दृष्टो भगवांपत्तनेऽभयदेवसूरिपार्श्वे
, स्तीर्थकरप्रतिरूपः संनिकृष्टोपविष्ट[विशिष्ट]सिद्धान्तवाचनार्थिप्रचु
वि राचार्यः स्ववाग्वैभवावधूतदेवाचार्यः भक्तिवशोल्लसितबहलरोमाञ्चसिद्धान्ताभ्यासः
- कञ्चुकिका(ता,ञ्चितकायलतिकेन वन्दितस्तेन । ततो गुरुणा दर्शनमात्रेणैव योग्यो विशुद्धात्मफलक इव कश्चिदयं दृश्यते इति परिभाव्य मधुरवाण्या पृष्टः कुतो भवान् ? किं च भवतः प्रयोजनमा गम]नस्य ? । ततो [नियोजितकरकुड्मलेन भगवदर्शनोद्भूतप्रभूतनिरुपमानबहुमानजल[द पटलनिधौतान्तर्मलेन वचनामृतचारिमान्यकृतामृतनिर्मितरोहिणीवल्लभेन जगदे गणिजिनवल्लभेन-'भगवन् ! निजाखण्डलक्ष्मीप्रकर्षेण स्वःपुरीदासिकायाः समागतस्ता[व]त् श्रीमदासिकायाः। श्रीजिनेश्वरमरिणा स्वगुरुणा प्रेषितस्य मम मधुकरविभ्रमस्य यौष्माकीणवक्त्राम्भोज[विलिनसिद्धान्तरसपिपासितस्य मतिः सकलजनमनकामनाकल्पतरूणां भवतां पार्चे सिद्धान्तवाचनामध्येतुं व्यवस्यति । ततः-] 'कोलम्मि आगए विऊ अपत्तं च न वाइज्जा पत्तं च न विमाणए ।' इति विचिन्त्याभिहितम्-युक्तं विहितं भवता यत् सिद्धान्तवाचनाभिप्रायेणात्र समागतः । ततः प्रधानदिने वाचना दातुमारब्धा । यथा यथा सुगुरुर्जिनवचनवाचनां ददाति तथा तथा प्रमुदितचित्तः सन् स सुशिष्यः सुधारसमिव तामास्वादयति । हर्षोत्फुल्लपद्मदृशं तं तादृशं शिष्यमभिवीक्ष्य गुरवोऽपि तोषपोषद्विगुणीकृतवाचनादानोत्साहा बभूवुः । किं बहूक्तेन ? तथा तथा ज्ञापनबुद्धया श्रीपूज्या वाचनां तस्मै दातुं प्रवृत्ता यथा स्तोकेनैव कालेन सिद्धान्तवाचना परिपूर्णा जाता । तथा गुरोज्यौतिषिक एकः पूर्वप्रतिपन्न आसीद् 'यदि भवतां कश्चिद् योग्यः
शिष्यो भवेत, तदाऽसौ मह्यं समर्पणीयो येन तस्मै समग्रज्योतिष ज्योतिषः पठनम्
" समर्पयामि' । ततः पूज्यैर्जिनवल्लभगणिः समर्पितः । तेनापि जिनवल्लभाय ज्योतिषं सुपरिज्ञानं प्रदत्तम् |
एवं च गृहीतसिद्धान्तवाचनः सिद्धान्तोक्तक्रियासम्यगनुष्ठानबद्धमानसः समधिगत
प्रस्थाने सस्फूर्तिज्योतिषः स्वगुरोः समीपे गमनाय मुत्कलनवचनं प्रतीसिद्धान्तगुरोः शिक्षा च्छति । प्रभुभिरभिहितम् - 'वत्स ! सिद्धान्तोक्तसाधुसमाचारस्तावत् समस्तोऽपि त्वयाऽवगतोऽतस्तदनुसारेण यथा वर्तसे तथा विधेयम् । ' श्रीजिन
१ 'काले आगते विद्वान अपात्रं च न वाचयेत् पात्रं च न विमानयेत् ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org