________________
द्राक्षा-खजूराक्षोटक-खण्डमण्डक-खण्डमोदकादिदानपुरस्सरं वशीकृत्य तन्मातरं मधुरवचनैः सम्बोधयामास यदुतैष त्वदीयपुत्रोऽत्यन्तं प्रज्ञः स्फू( मू)र्तिमान् सात्त्विकः किं बहुना ? आचार्यपदयोग्योऽस्ति, तदेनमस्मभ्यं प्रयच्छ । एषा तावकीना धर्मदेवकुलिका तवान्येषां च निस्तारको भविष्यत्यत्रार्थे नान्यथा किञ्चिद् वक्तव्यमित्यभिधाय द्रम्मशतपञ्चकं तस्या हस्ते प्रक्षिप्य क्षिप्रं दिदीक्षे जिनवल्लभोऽध्यापितस्तेन समस्ता लक्षणच्छन्दोऽलङ्कार-क(तर्क)-ग्रहगणितादिका निरवद्या विद्याः। कदाचित् तस्याचार्यस्य ग्रामादौ प्रयोजनमुपतस्थे । ततो गच्छता पण्डितो जिन
वल्लभो भणित(तो भो)स्तावत् त्वया सर्वाऽपि चिन्ता कर्तव्या, यावत् शोधकबुद्धिः सिद्धान्त
प्रयोजनमनुशील्याहमागच्छामि । विनयप्रणतोत्तमाङ्गेन जिनवल्लवाचनाचार्यपदम् , भेनोक्तम्-- पूज्यैर्यथाऽऽदिष्टं तथा विधास्ये, परमाराध्यैः कार्य प्रतिष्ठादि
निष्पाद्य शीघ्रमागन्तव्यम्' इति । गतोऽसौ ग्रामान्तरे (रम्)। ततो द्वितीयेऽह्नि चिन्तितं जिनवल्लभेन यदुत भाण्डागारमध्ये मञ्जूषा पुस्तकभृता दृश्यते । तदेतेषु पुस्तकेषु किमस्ति निभालयामि यतस्तद्वशं सर्व जातमस्तीत्युच्छोटितमेकं पुस्तकं तच्च सिद्धान्तसत्कम् । तत्रोक्तं पश्यति-' साधुना द्विचत्वारिंशद्दोषविशुद्धपिण्डेन गृहस्थगृहेभ्यो मधुकरवृत्त्या गृहीतेन संयमनिर्वाहहेतवे देहधारणा कर्तव्या । न कल्पते यतीनां सचित्तपुष्प-फलादिकं हस्तेनापि स्प्रष्टुं किमङ्गाहारयितुम् ? न युक्त एकत्र निवासो मुनीनामित्यादि विचारान् दृष्ट्वा मनसा विस्मितश्चिन्तयामास । अहो ! अन्य एव स कश्चिद् व्रताचारों येन मुक्तो गम्यते, विसदृशस्त्वस्माकमेष समाचारः स्फुटं दुर्गतिगर्तायां निपततामेतेन न कश्चिदाधार इति चेतस्यालोच्य गम्भीरवृत्त्या पुस्तकादिकं यथास्थिति कृत्वा गुरूक्तरीत्या स्थितः । कतिपयदिनानन्तरम(रं)कृतकार्यस्ततः समागत आचार्यश्चिन्तयति किमपि स्थानं न हीनं जातम् । यावज्जिनवल्लभेन मठ-वाटिका-विहार-द्रव्यसम्भारकोष्ठागारप्रभृति सर्व त्रातम्, तस्माद् यथा योग्यश्चिन्तितस्तथा निश्चितमेष भविष्यति, किन्तु सिद्धान्तं विना शेषा अशेषा अपि तर्कालङ्कारादिविद्या अनेनाभ्यस्ताः सिद्धान्तश्च यथावस्थितः सम्प्रतितनकालापेक्षया सम्पूर्णः साम्प्रतं श्रीअभयदेवसूरिसमीपे श्रूयते तत् सिद्धान्तवाचनाग्रहणार्थं तत्पार्श्वे जिनवल्लभं प्रेषयामि । गृहीतायां तु सिद्धान्तवाचनायां समस्तविद्यानितम्बिनीवल्लभं [जिनवल्लभं ] स्वपदे संस्थापयिष्यामीति परिभाव्य वाचनाचार्यं कृत्वा निश्चिन्ततोपेतभोजनादियुक्तिं च चिन्तयित्वा जिनशेखराभिधानद्वितीयशिष्यवैयावृत्त्यकरसमेतं जिनवल्लभं श्रीअभयदेवाचार्यसमीपे प्रेषितवान् । मरुकोट्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org