SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ उपदेशरसायनरासः ] अलीकभाषिणां धृष्टानां च वचने नैव प्रत्ययं करोति । यश्चासमर्थों निःसत्त्वो वा तस्योपरि दया क्रियते । आत्मा कदाचिद् भीतो हृष्टो वा परस्य लक्ष्यतां न नीयते, कदाचिदपायसम्भवात् । न चात्मा विना कारण विशेषलाभादिकं मन्त्रिबलाधिपाद्यधिकारिणां वस्त्र-द्रव्यादिदानेनोपयोगं नीयत इत्यर्थः ॥ ७७ ॥ माय-पियर जे धम्मि विभिन्ना ति वि अणुवित्तिय हुँति ति धना । जे किर हंति दीहसंसारिय। ते बुल्लंत न ठंति निवारिय ॥ ७८ ॥ [ माता-पितरौ यो धर्मे विभिन्नौ तावप्यनुवर्तितौ भवतस्तौ धन्यौ । ये किल भवन्ति दीर्घसंसारिण स्ते ब्रुवन्तो न तिष्ठन्ति निवारिताः ॥ ७८ ॥ ] माता-पितरौ यौ विभिन्नधार्मिको तावप्यनुवर्तितौ सन्तौ तौ प्रसिद्धौ धन्यौ पुण्यभाजनं शुद्धधर्मविषयाभिमुखौ भवत इत्यर्थः । व्यतिरेकमाह-ये पुनः पित्रादयोऽपि दीर्घसंसारिणो भवन्ति, ते अनुवर्त्तिता अपि सन्तोऽसभ्यं भाषन्त एव, न च तिष्ठन्ति निवर्त्तिता अपीत्यर्थः ॥ ७८ ॥ ताहि वि कीरइ इह अणुवत्तण भोयण-वत्थ-पयाणपयत्तिण । तह बुलंतह नवि रूसिज्जइ तेहि समाणु विवाउ न किज्जइ ॥ ७९ ॥ [ तेषामपि क्रियत इहानुवर्तना भोजन-वस्त्रप्रदानैः प्रयत्नेन । तथा ब्रुवतामपि नैव रुष्यते तैः समं विवादो न क्रियते ॥ ७९ ॥] तेषामपि भिन्नधाम्मिकाणां संसारिणां क्रियत इहानुवर्तना भोजन-वस्त्रप्रदानैः प्रयत्नेन दुष्प्रतीकारत्वात् तेषाम् । कदाचित् तु दुष्टमपि भाषमाणानां न रोषः क्रियते । तैः सह विवादो न क्रियते स्वयं विवेकित्वात् कृतज्ञत्वाच्चेत्यर्थः ॥७९॥ ___अथोपसंहरन्नुपदेशफलमाहइय जिणदत्तुवएसरसायणु इह-परलोयह सुक्खह भायणु । १ ख. ग. वुत्तंतह । २ क. °अह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy