SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ५४ [ जिनदत्तसूरिविरचित [ एष गुरुः कैश्चिदपि लोकैर्वर्णितः ततोऽप्यस्मदीये सङ्घ न मतः । वयं कथमस्य पृष्ठे लगामः ? अन्यैरिव कथं निजगुरुं मुञ्चामः ? ॥ ५१॥ ] एष गुरुः कैश्चिल्लोकैवर्णितः, परमस्मदीयेन सङ्घन न मानितः । ततोऽस्य पृष्ठे कथं वयं लगामः ? । अन्यैरिव शुद्धविधिधर्मप्रवृत्तमुग्धधार्मिकैरिव कथं निज. गुरुं मुञ्चाम इत्यर्थः ॥५१॥ पारतंत-विहिविसइ-विमुक्कउ जणु इउँ बुल्लइ मग्गह चुक्कउ । तिणि जणु विहिधम्मिहि सह झगडइ इह परलोई वि अप्पा रगडइ ॥ ५२ ॥ [ पारतन्त्र्य-विधिविषयैर्विमुक्तो. जन एतद् वदति मार्गाच्च्युतः । तेन जनो विधिधार्मिकैः सह कलहायते इह परलोकेऽप्यात्मानं वञ्चयति ॥ ५२ ॥] पारतन्त्र्यविधिविषयैर्विमुक्तो जनः प्रवाहपतित एतत् पूर्वोक्तं वदति मार्गभ्रष्टः सन् । यत एतदेवं तेन कारणेन जनः पूर्वोक्त एव । विधिधार्मिकैः सह कलहायते । तथा चासाविह-परलोकयोरात्मानं वञ्चयतीत्यर्थः ॥ ५२ ॥ तु वि अविलक्खं विवाउ करंतउ किवइ न थक्कइ विहि असहंतउ । जो जिणभासिउ विहि सु कि तुट्टइ ? सो झगडंतु लोउ परिफिट्टइ ॥ ५३॥ [ तथाप्यविलक्षो विवादं कुर्वन् कथमपि नावतिष्ठते विधिमसहमानः । यो जिनभाषितो विधिः स किं त्रुट्यति ? असौ कलहायमानो लोकः परिभ्रश्यति ॥ ५३ ॥] यद्यप्यात्मानं वञ्चयति तथाप्यविलक्षोऽविवेकित्वादीनो विवादं कुर्वन् धार्मिकैः सह कथमपि नावतिष्ठते विधिमसहमानः । यतो न जानात्यसौ मूर्यो १ क. °दीयसं। २ क, मनितः । ३ ख. ग. °ततु । ४ क. इहु । ५ ख. ग. हिं सहुं ज्झ। ६ ख. ग. लोय । ७ ख. ग. लखु । ८ ख. ग, ज्झग। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy