SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ५२ [जिनदत्तसूरिविरचित तस्य युगप्रवरस्याहर्निशमियमेव चिन्ता वर्तते । कापि स्थाने जिनप्रवचनं मालिन्यं मा लभताम् । एवमतिशयेन प्रवचनानुकूल्येऽपि तस्य भूरयो भ्रमन्तोऽपि दृश्यन्ते बोडा मुण्डितशिरसः ये तं प्रशंसन्ति ते स्तोका एवेत्यर्थः ॥ ४६ ॥ प्रत्युतपिच्छेहि ते तमु पइ पइ पाणिउ तसु असंतु दुहु ढोयहिं आणिउं । धम्मपसाइण सो परि छुट्टइ सबत्थ वि सुहकज्जि पयट्टइ॥ ४७ ॥ [ प्रेक्षन्ते ते तस्य पदे पदे पानीयं (च्छिद्रम् ) तस्यासद् दुःखं ढोकयन्त्यानीय । धर्मप्रसादेन स परं च्छुट्यते । सर्वत्रापि शुभकार्ये प्रवर्तते ॥ ४७ ॥ ] प्रेक्षन्ते ते मुण्डितशिरसः पदे पदे पानीयं देशविशेषभाषया छिद्रम् । तस्यासदशोभनं दुःखं परवाद्याद्युत्थापनेन पीडां ढोकयन्ति आनीय । धर्मप्रसादेनैव स तावत्सु दुष्टेषु सत्सु मुच्यते । ततः सर्वत्रापि शुभकार्ये प्रवर्तत इत्यर्थः ॥४७॥ तह वि हु ताहि वि सो नवि रूसइ खम न सु मिल्लइ नवि ते दूसइ । जइ ति वि आवहि तो संभासइ जुत्तु तदुत्तु वि निसुणिवि तूसइ ॥ ४८ ॥ [ तथापि खलु तेभ्योऽपि स नैव रुष्यति क्षमां न स मुञ्चति नापि तान् दूषयति । यदि तेऽप्यागच्छन्ति ततः सम्भाषते युक्तं तदुक्तमपि निश्रुत्य तुष्यति ॥ ४८ ॥] तथाप्येवमपि दुष्टाशयेषु स न रुष्यति । क्षमा तद्विषयानुकूलप्रवृत्तिरूपां न मुञ्चति । न च तान् दूषयति दोषवत्त्वेन ख्यापयति । यदि कदाचित् तेऽप्यागच्छन्ति ततः सम्भाषते । युक्तं तदुक्तमपि श्रुत्वा तुष्यति, न तु दुष्टोक्तत्वेन खण्डयतीत्यर्थः ॥ ४८ ॥ अप्पु अणप्पु वि न सु बहु मन्नइ थोवगुणु वि परु पिच्छवि वनइ । १ ख, ग. पिच्छहिं । २ ख. ग. वि तो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy