________________
[ जिनदत्तसूरिविरचित
सो छउमत्थु वि जाणइ सव्वइ जिण-गुरु-समइपसाइण भव्वइ । चलइ न पाइण तेण जु दिउ जं जि निकाइउ त परि विणहउ ॥ ४२ ॥ [ स च्छद्मस्थोऽपि जानाति सर्व जिन-गुरु-समयप्रसादेन भव्यम् । चलति न प्रायेण तेन यद् दृष्टं
यत् पुनर्निकाचितं तत् पुनर्विनष्टम् ॥ ४२ ॥] स युगप्रधानश्छद्मस्थोऽपि जानाति सर्वम् , एतत् कालानुसारि ज्ञेयम् । केनेत्याह-जिन-गुरु-सिद्धान्तप्रसादेन भव्यं यथावस्थितं नैसगिक-सातिशयप्रज्ञावत्त्वात् सिद्धान्तपारगतत्वाच्च, तथा च न चलति न विघटते प्रायेण यत् तेन दृष्टं सम्यक् श्रुतज्ञानप्रदीपेनावलोकितं भविष्यत्वेन कचिद् दृष्टमपि यत् पुनर्निकाचितमवश्यमनन्यथा भावि तत् पुनर्विनश्यतीत्यर्थः ॥ ४२ ॥
जिणपवयणभत्तंउ जो सक्कु वि तमु पयचिंत करइ बहु[व]कु वि जसु । न कसाईहिं मणु पीडिजइ तेण सु देविहि वि इंडिजइ ॥ ४३ ॥ [ जिनप्रवचनभक्तो यः शक्रोऽपि तस्य पदचिन्तां करोति बहुव्यग्रोऽपि यस्य । न कषायैर्मनः पीड्यते
तेनासौ देवैरपीड्यते ॥ ४३ ॥] जिनप्रवचने भक्तो योऽतः शक्रोऽपि तत्पदचिन्तामापद्यपि तन्निवर्तनादिविषयां करोति बहुव्यग्रोऽपि । यस्य कषायैर्दुष्टविषय-क्रोधादिभिर्मनो न पीड्यते, तेनासौ देवैः सुरेन्द्रादिभिरपीड्यते स्तूयत इत्यर्थः ॥ ४३ ॥
इन्द्रचिन्ताविषयत्वे कारणान्तरमाहमुगुरु-आण मैणि सइ जसु निवसइ जसु तत्तत्थि चित्त पुणु पविसइ ।
१ क. °वक । २ क. हि । ३ ग. मण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org