________________
उपदेश रसायनरास: ]
माघमाला - जलक्रीडा - देवतान्दोलनं च ता अध्यागमानुक्तत्वात् खिड्गक्रीडाप्रायत्वेन चायुक्तत्वान्न कुर्वन्ति गुणालयाः । बलिं पक्वान्नादिरूपमस्तमिते दिनकरे न धारयन्ति । रात्रौ चतुर्विधस्याप्याहारस्य तद्वर्ण-तद्रस- जीवसंसक्तिमत्त्वेनागमाभिहिततयाऽत्यन्तजुगुप्सितत्वात् । गृहकार्याणि लेखक - वाणिज्य - झटकादीनि जिनगृहे न कुर्वन्तीत्यर्थः ॥ ३९ ॥
४९
चैत्यसम्बन्धी विधिरुक्तोऽथ विशिष्टाचार्यस्वरूपं व्यवहारं चाहसूरि ति विहिजिणहरि वक्खाणहि तहिं जे अविहि उस्तु न आणहिं । नंदि - usse ते अहिगारिय सूरि वि जे तदवरि ते वारिय ॥ ४० ॥ [ सूरयस्ते विधिजिनगृहे व्याख्यानयन्ति तत्र येऽविध्युत्सूत्रं नानयन्ति ।
नन्दि-प्रतिष्ठयोस्तेऽधिकारिणः
सूरयोऽपि ये तदपरे ते वारिताः ॥ ४० ॥ ]
सूरत एव विधिजिनगृहे व्याख्यानं कुर्व्वन्ति ये तत्राविधिमुत्सूत्रं वा न किञ्चिदानयन्ति उपदर्शयन्ति । नन्दि-प्रतिष्ठयोरपि त एवाधिकारिणः । सूरयोs पि ये तदपरे ते निवारिता उत्सूत्रादिप्रवर्त्तकत्वादित्यर्थः ॥ ४० ॥
एगु जुग पहाणु गुरु मन्नहिं जो जिण गणिगुरु पवयणि वन्नहिं । तासु सीसि गुणसिंगु समुट्ठइ
पवयणु - कज्जु जु साहइ लहइ ॥ ४१ ॥
[ एकं युगप्रधानं गुरुं मन्यन्ते
यं जिना गणिगुरुं प्रवचने वर्णयन्ति ।
तस्य शीर्षे गुणशृङ्गं समुत्तिष्ठते
प्रवचनकार्याणि यः साधयति लष्टानि ॥ ४१ ॥ ]
एकस्मिन् काले एकमेव युगप्रधानं मन्यन्ते सुश्राद्धाः, न बहून् । यं जिना गणिगुरुं समस्ताचार्य श्रेष्ठं प्रवचने सिद्धान्ते वर्णयन्ति । इतरेभ्यस्तस्य को विशेष इत्याह-तस्य युगप्रधानस्य शीर्षे गुणशृङ्गं गुणोच्छ्रयरूपं समुत्तिष्ठते शेषेभ्यः सर्वै रपि गुणैरुत्कृष्यत इत्यर्थः । प्रवचनकार्याणि विशिष्टप्रभावनाऽऽदीनि यः साधयति लष्टानि प्रधानानीत्यर्थः ॥ ४१ ॥
७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org