SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ४७ उपदेशरसायनरासः] पाड वि न हु अजुत्त वाइजहिं लइवुडिडउंडि-पमुह वारिज्जहिं ॥३५॥ [ रागा विरुद्धा नैव गीयन्ते । हृदये धारयद्भिर्जिनगुणा गीयन्ते । पाटा अपि नैवायुक्ता वाद्यन्ते लइबुडिडउंडिप्रमुखा वार्यन्ते ॥ ३५ ॥] रागा भैरव-मेघरागादयोऽत्यन्तशोकाविर्भावकत्वेन विरुद्धा नैव गीयन्ते । हृदये जिनगुणानेव धारयद्भिर्जिनानामेव गुणा गीयन्ते, न त्वन्येषाम् । पाटा अपि पाणविकादिप्रसिद्धा नैवायुक्ता मरणाद्यवस्थासूचका वाद्यन्ते । तानेवाह-लइवुडिडउंडिप्रभृतयः । पाटास्तत्प्रसिद्धा एव वार्यन्तेऽत्यन्तं श्रुतिकटुकत्वादित्यर्थः ॥ ३५ ॥ उचिय थुत्ति-थुयपाढ पढिजहिं जे सिद्धंतिहिं सहु संधिजहिं । तालारासु वि दिति न रयणिहिं दिवसि वि' लउडारसु सहुं पुरिसिहि ॥ ३६॥ [उचिताः स्तुति-स्तोत्रपाठाः पठ्यन्ते ये सिद्धान्तेन सह सन्धीयन्ते । तालारासकमपि ददति न रजन्यां दिवसेऽपि लगुडरासं सह पुरुषैः ॥ ३६ ॥ उचितानि स्तुति-स्तोत्राणि देवाग्रे पठ्यन्ते, यानि सिद्धान्तेन सह सन्धीयन्ते, न पुनरुत्सूत्राणि । तालारांसकमपि न ददति श्राद्धा रजन्यां प्रदीपोद्योतेऽ पि । तदानीमदृश्यसूक्ष्मपिपीलिकादिध्वंसहेतुत्वात् । दिवसेऽपि लगुडैरासं पुरुपैरप्यास्तां योोषद्भिः तस्यात्यन्तविटचेष्टारूपत्वात् , कदाचित् प्रमाद्वशान्मस्तकाघाघातहेतुत्वात् , दुष्टपाठादिवत्त्वाञ्चेत्यर्थः ॥ ३६ ॥ धम्मिय नाडय पर नचिजहिं भरह-सगरनिक्खमण कहिज्जहिं । चक्वाहि-बल-रायह चरियई नचिवि अंति हुंति पव्वइयई ॥ ३७॥ १ क. च । २ ख. ग. रस । ३ ख. ग. डारसं । ४ ख. ग. नचिय मंत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy