________________
४२
[ जिनदत्तसूरिविरचित
धम्मिउ धम्मुकज्जु साहंतउ परु मारइ कीवइ जुझंतउ । तु वि तसु धम्मु अस्थि न हुनासइ परमपई निवसइ सो सासइ ॥२६॥ [ धार्मिको धर्मकार्य साधयन् परं मारयति कथमपि युध्यमानः । तथापि तस्य धर्मोऽस्ति न खलु नश्यति
परमपदे निवसति स शाश्वते ॥ २६ ॥ ] धार्मिको धर्मकार्य विधिचैत्यग्रहणादिकं साधयन् सन् कदाचित् परं विपक्षं तदुपघाताय प्रवृत्तं कथमपि मर्मप्रहारादिना व्यापादयति युध्यमानस्तेन संह तथापि तस्य निश्चयनयेन धर्मोऽस्त्येव केवलविधिप्रवर्तनाय विधिचैत्यग्रहणेप्रवृत्तेः । न तु नैव तद्वथापादनेन धर्मो नश्यति । तथा च क्रमेण परमपदे मोक्षे निवसति स शाश्वते । अयमत्र भावार्थः--धार्मिकः केवलविधिविधानलालसः सन् अविधि सर्वथाऽसहमानोऽविधिकारकान् (जिणपवयणस्स अहियं सव्वत्था मेण वारेइ' त्ति सिद्धान्तवचनानुस्मरणेन यथा तथा निवारयन् कदाचित् परं हन्यादपि तथाप्यत्यन्तशुद्धमनस्कत्वात् शुद्धचारित्रपरिपालनप्रवृत्तसहसाकारनिपातितद्वीन्द्रियादिमहामुनिवनिष्पाप एव । तथा चोच्यते
"(२) उच्चालियम्मि पाए इरियासमियस्स संकमट्ठाए । वावजिज्ज कुलिंगी मरिज ते योगमासज ॥ न य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समए। अणवज्जोहपओगेण सव्वभावेण सो जम्हा ॥” इत्यर्थः ॥२६ ॥ सावय विहिधम्मह अहिगारिय जिज्ज न हुति दीहसंसारिय । अविहि करिंति न सुहगुरुवारिय . जिणसंबंधिय धरहि न दारिय ॥ २७ ॥ (१) जिनप्रवचनस्याहितं सर्वस्थाम्ना वारयेत् इति । (२) उच्चालिते पादे ईर्यासमितस्य सङ्कमार्थम् । व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य ।। न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि देशितः समये ।
अनवद्यौघप्रयोगेण सर्वभावेन स यस्मात् ॥ १ ख. ग. धाम्मिय । २ क.° पइ। ३ ख. ग. ग्रहः । ४ क.° ग्रहणाप्र । ५ क. उच्चलयमि । ६ ख. ग. जोय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org