SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ उपदेशरसायनरासः ] अविधिनिशिस्नानादिकः प्रवर्तते तदा घृतं सक्तुषु प्रलुठति तद्वत् समीहितं समीहितेन संयुज्यते इति तेषां भाव इत्यर्थः ॥ २३ ॥ अथ तत्प्रार्थनया नृपतिचेष्टितमाहजइ किर नरवइ कि वि दूसमवस ताहि वि अप्पहि विहिचेइय दस । तह वि न धम्मिय विहि विणु झगडहि जइ ते सव्वि वि उद्यहि लगुडिहि ॥ २४ ॥ [ यदि किल नरपंतयः केऽपि दुःषमावशात् तेषामप्यर्पयन्ति विधिचैत्यानि दश । तथापि न धार्मिका विधिं विना कलहायन्ते यदि ते सर्वेऽप्युत्तिष्ठन्ते लगुडैः ॥ २५ ॥] यदि किल केऽपि नृपतयः केचन निर्विवेकिनो लुब्धा दुःख(प)मावशाद् दुष्टकालमाहात्म्याल्लोभाभिभूतास्तेषामप्यविधिकारिणामर्पयन्ति पूजनाय विधिचैत्यानि 'दशेति यमकानुरोधेन तेन त्रीणि चत्वारि वेति द्रष्टव्यम्' । तथापि विधिचैत्यापहारेऽपि धार्मिका विधि विना युक्तिमन्तरेण न तैः सह कलहायन्ते । यदि ते विपक्षाः सर्वेऽप्युत्तिष्ठन्ते लगुडैः प्रहर्तुमित्यर्थः ।। २४ ॥ नन्वेवं सति तेषां विधिचैत्यसंघट्टैनं कथं भविष्यतीत्याह निच्चु वि सुगुरु-देवपयभत्तह पणपरमिहि सरंतह संतह । सासणसुर पसन ते भव्वई धम्मिय कज पसाहहि सव्वई ॥ २५ ॥ [ नित्यमपि सुगुरु-देवपदभक्तानां पञ्चपरमेष्ठिनः स्मरतां सताम् । शासनसुराः प्रसन्नास्ते भव्यानि धार्मिककार्याणि प्रसाधयन्ति सर्वाणि ॥ २५ ॥] नित्यमपि सुगुरु-देवपदभक्तानां पञ्चपरमेष्ठिमन्त्रं स्मरतां सतां शासनसुराः स्वयमेव प्रसन्ना भवन्ति । ते च भव्यानि मनोऽभीष्टानि धार्मिककार्याणि विधिचैत्यलाभादीनि सर्वाणि साधयन्तीत्यर्थः ॥ २५ ॥ १ क. ताहि विहि । २ क. उद्विहि । ३ क. संघटनं । ४ ख. ग. पस्सन्न । ५ क. भव्वइ । ६ख. ग. पलाहहिं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy