SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ [ जिनदत्तसूरिविरचित खज्जइ सावएहि सुबहुत्तिहिं भिज्जइ सामएहिं गुरुगत्तिहिं । वग्घसंघ-भय पडइ सु खड्डह पडियउ होइ सु कूडउ हड्डह ॥ १४ ॥ [खाद्यते श्रावकैः सुबहुभिर्भिद्यते सामदैः ( श्वापदैः ) गुरुगात्रैः । व्याघ्रसङ्घभयात् पतति स गर्ने पतितो भवति स कूटोऽस्थ्नाम् ॥ १४ ॥ ] पपतितः सन् असावस्थिरः खाद्यते वस्त्रान्नादिग्रहणेनोपभुज्यते श्रावकैः प्रवाहपतितसाध्वनुयायिभिः सुबहुभिः भिद्यते वासितहृदयः क्रियते सामदैः साम ददतीति कोमलपापोपदेशदातृभिर्गुरुगात्रैर्गुरुरिति गात्रं स्वरूपं येषां नामाचार्यस्वरूपैः सांसारिकमहाभयोत्पादकत्वाद् व्याघ्र इव व्याघ्रः सङ्घो निर्गुणदुष्टबहुजनसमूहस्तस्माद् भयं सन्मार्गाप्रवर्तने त्रासस्तेन पतत्यसौ गर्ने नरके उपचारात् । तन्निमित्तनिरन्तरानायतनसेवादौ पतितश्च सन् कूटो राशिर्भवति अस्थ्नां निर्गुणत्वात् कीकसमात्रावशेषो भवति । अर्थान्तरपक्षे तु श्वापदैः श्व-शृगालादिभिः भिद्यते विदार्यते । सामजैर्वनगजैः गुरुगात्रैर्वृहच्छरीरैः व्याघ्रसङ्घश्चित्रकसमूहः पतितश्च सन मृतत्वात् कूटो राशिरस्थनां भवतीत्यर्थः ॥ १४ ॥ तेण जम्मु इहु नियउ निरत्थर नियमत्थइ देविणु पुल्हत्थउ । जइ किर तिण कुलि जम्मु वि पाविउ जाइजुत्तु तु वि गुण न म दाविउ ॥१५॥ [ तेन जन्मेह नीतं निरर्थक निजमस्तके दत्त्वा पुल्हत्थकम् । यदि किल तेन कुले जन्मापि प्राप्तं जातियुक्तं तथापि गुणो न स दापितः ॥ १५ ॥] तेन कातरेणास्थिरेण वा जन्मात्र निरर्थकं नीतं निजमस्तके दत्त्वा पुल्हत्थक अन्तःशुषिरमिलितकरद्वयप्रहारः प॒ल्हत्थकः' यथा केनापि बलवताऽत्यन्तान्यायपरेण वण्ठेन कस्यचिद् दुर्गतनरादेः पार्थान्मस्तके पुल्हत्थकं दत्त्वा तस्माल्लक्षम्यादि सर्वथाऽपहृत्य तस्य जन्म निरर्थक क्रियते । एवमनेनापि कातरादिना १ क. ° सिंघ' । २ क. में प्रवर्त्तने त्रासत्येन । ३ ख. मृतसत्कूटो, ग. सन् कूटो । ४ क. पुल्लल्थको । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy