________________
उपदेशरसायनरासः ]
३५
[ धर्मं स धर्तुं किं शक्नोति कातरः ?
तत्र गुणं क आरोपयति सादरम् ? |
तस्य सुखार्थे (सुहस्तो) निर्वाणं किं सन्धत्ते ?
मोक्षं किं करोति राधां किं स विध्यति ? ॥ १२ ॥ ]
धर्मे शुभानुष्ठानं स कातरपुरुषो धर्तुमात्मनि निवेशयितुं किं शक्नोति ? नैव । तत्र कातरगृहीते धर्मे गुणमुत्तरोत्तरवृद्धिलक्षणं क आरोपयति सादरम् ? आरोपयितुः कातरत्वात् । तस्य कातरस्य सुखार्थ निर्वाणमुपचारान्निर्वाणहेत्वनुष्ठानं किं कृपालुरपि सन्धत्ते चेतसि निवेशयति १ नैव । तथा चासौ कृपणः किं मोक्षं कृत्स्नकर्मक्षयलक्षणं करोत्यात्मायत्तं विधत्ते ? नैव । यतोऽसौ राधां सम्यक्चारित्रानुपालनरूपां किं स कातरो विध्यति ? नैव । अयमत्र भावो यो हि कातरो धर्म तत्र गुणं चौरोपयितुमसमर्थश्चारित्रानुपालनं च न करोति; स किं मोक्षं कदाचित् साधयति ? नैव । अर्थान्तरपक्षे तु धर्मं धनुः, गुणो जीवा, तस्य कातरस्य, सुहस्तः शोभनकरः, निश्चितं बाणं निर्वाणं, मोक्षं प्रक्षेप, राधां चक्राष्टको परि वर्तमानां पाञ्चालिकामित्यर्थः ॥ १२ ॥
I
कातरवदस्थिरोऽप्ययोग्य इत्याहतसु किंव होइ सुनिव्वुइ - संगमु ? अथिरु जुँ जिर्व किक्काणु तुरंगमु । कुप्पह पडइ न मग्गि विलग्गइ वाह भरिउ जहिच्छई वग्गइ ॥ १३ ॥ तस्य कथं भवति सुनिर्वृति-सङ्गमः अस्थिरो यो यथा किक्काणतुरङ्गमः ।
कुपथे पतति न मार्गे विलगति
वातेन भृतो यथेच्छं वल्गति ॥ १३ ॥ ]
तस्य कथं भवति निर्वृतिसङ्गमो योऽस्थिरो मनश्चक्षुरादिचपलः किक्काणतुरङ्गम इव । स हि कायेनैव चपलः, परमस्थिरत्वेन साम्यादुपमानम् । कुपथे लोकप्रवाहलक्षण उन्मार्गे पतति न मार्गे सम्यग्ज्ञानादिरूपे "विलगति न सम्बध्यते । वातेन विद्याजनिताहङ्कारोत्कर्षेण भृतो यथेच्छं वल्गति निरर्थकं चेष्टते । किक्काणोऽपि निर्वृतिः सुखमंीत्रां चणकादिभृतोदरत्वेन प्रबलप्रभञ्जनो वातभृत इत्यर्थः वल्गति उट्टीत इत्यर्थः ॥ १३ ॥
१ ख. ग. आरोहयति । २ क. यितुं । ३ ख. ग. वारो । ४ ग. च करोति । ५ क. किंव । ६ ख. सुमिक्कइ । ७ ख. ग. ज्जु । ८ कजिं । ९ ख, ग. च्छई । १० क. विगलति । ११ क. मात्रं । १२ क. कति ।
o
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org