SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उपदेशरसायनरासः ] ३३ [ गुरु-प्रवहणं निष्पुण्यैर्न लभ्यते तस्मिन् प्रवाहे पतितो जन उह्यते । सा संसार-समुद्रे प्रविष्टा यत्र सौख्यानां वार्ताऽपि प्रणष्टा ॥ ८ ॥] गुरुप्रवहणं सदाचार्यपोतो निष्पुण्यैर्न लभ्यते । तथा च तस्मिन् लोकप्रवाहे पतितो जन उह्यते । सा सरित् संसारसमुद्रे प्रविष्टा तद्गामिनी यातेत्यर्थः । यत्रं सौख्यानां वार्ताऽपि प्रणष्टा । द्रव्यसरित्पक्षे तु गुरुप्रवहणं महापोत इत्यर्थः ॥ ८ ॥ तहिं गय जण कुग्गाहिहिं खज्जहिं मयर-गरुयदाढग्गिहि भिजहिं । अप्पु न मुणहि न परु परियाणहिं सुखलच्छि सुमिणे वि न माणहिं ॥९॥ [ तत्र गता जनाः कुनाहैः खाद्यन्ते मद(क)र-गुरुदंष्ट्रागैर्भिद्यन्ते । आत्मानं न जानन्ति न परं परिजानन्ति सुखलक्ष्मी स्वप्नेऽपि न मानयन्ति ॥ ९॥] तत्र लाकप्रवाहसरिति प्राप्ता जनाः कुग्राहैः कदभिनिवेशैः खाद्यन्ते आत्मायत्ताः क्रियन्ते । कुत इदं यतो मदमहङ्कारं रान्ति स्व-परेभ्यो वितरन्ति मदराः कुगुरवस्तेषां गुरुदंष्ट्राप्रैस्तत्तुल्यकठोरोत्सूत्रवचनैर्भिद्यन्ते वासितहृदयाः क्रियन्ते । तथा चात्मानं दुस्सहसंसारदुःखपतितं परं च कुगुरुं केवलं वञ्चनाप्रवृत्तं न परिजानन्ति । सौख्यलक्ष्मी स्वर्गादिकां स्वप्नेऽप्यास्तां साक्षान्न मानयन्ति नैवोपभुजते । पक्षान्तरे तु कुग्राहाः कुत्सितजलचरविशेषाः, मकरा अपि प्रसिद्धास्तैभिंद्यन्ते विदार्यन्ते । तथा च तदवस्था नात्मानं परं वा विदन्ति । मूर्छितत्वेनात्यन्तमूढत्वात् सौख्यलक्ष्मी स्वजनसम्बन्धसम्भोगादिकामित्यर्थः ॥ ९ ॥ अथ तद्विषयं कस्यापि सत्पुरुषस्य चेष्टितमाहगुरु-पवहणु जइ किर कु वि याणइ परउवयाररसिय मड्डाणइ । ता गयचेयण ते जण पिच्छइ किंचि सजीउ सो वि तं निच्छइ ॥ १० ॥ १ ख. ग. यस्यां । २ ग.° गुरुय। ३ ख. ग, हि। ४ क. भज्जहिं । ५ ख. ग, केवल क. जे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy