SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [जिनदत्तसूरिविरचित [ इह विषमा गुरुगिरः समुत्थिता लोकप्रवाहसरित् कुप्रतिष्ठिता। यस्य गुरुपोतो नास्ति स नीयते तस्याः प्रवाहे पतितः परिखिद्यते ॥ ६ ॥] इह प्रवचने विषमा महानर्थहेतुरपि भवाभिनन्दिजनाभिरुचिततया विपर्यस्तरूपा गुरुगिरः कुगुरुवचनात् समुत्थिता, सिद्धान्तानुक्तमपि सामान्यपञ्चजनानुमतं प्रमाणमिति लोकप्रवाहः स एवानुस्रोतोगमनप्रधानत्वात् सरित् कुप्रतिष्ठिता कुत्सिततया ख्यातिं गता । तयाँ च यस्य गुरुपोतः सद्गुरुप्रवहणं नास्ति स नीयते उह्यते । तस्याः प्रवाहे पूरे पतितः परिखिद्यते । द्रव्यसरित् पुनर्गुरुगिरेः महापर्वतात्, को पृथिव्यां प्रतिष्ठिता, गुरुपोतो महत्प्रवहणं, प्रवाहः पूर इत्यर्थः ॥६॥ सा घणजडपरिपूरिय दुत्तर किव तरंति जे हुति निरुत्तर ? । विरला किवि तरति जि सदुत्तर ते लहंति सुक्खैइ उत्तरुत्तर ।। ७॥ [ सा वनजडपरिपूरिता दुस्तरा कथं तरन्ति ये भवन्ति निरुत्तराः ? । विरलाः केचित् तरन्ति ये सदुत्तराः ते लभन्ते सौख्यान्युत्तरोत्तराणि ॥ ७॥ ] सा लोकप्रवाहसरिद् धनजडपरिपूरिता प्रभूतमूर्खप्रायजनाकीर्णा दुस्तरा कृच्छप्राप्यपर्यन्ता ता कथं तरन्ति तत्पर्यन्तं प्राप्नुवन्ति ? ये भवन्ति निरुत्तरा विचाराचातुर्येण विशिष्टोत्तरविकलाः । विरलाः केचित् तरन्ति ये सदुत्तराः सुगुरुसम्पर्कादिना विशिष्टोत्तरदानसमर्थाः । ते लभन्ते सौख्यानि उत्तरोत्तगणि प्रधान. प्रधानतराणि स्वर्गापवर्गादिलाभेन । द्रव्य सरित्पक्षे तु जडानि जलानि । निरुत्तरास्तथाविधोत्तरणशक्तिवैकल्येन सर्वथोत्तरणासमर्थाः । सदुत्तराः शोभनोत्तरणशक्तिमन्तः । उत्तरोत्तराणि बन्धुसङ्गम-लक्ष्मी-सम्भोगजनितानीत्यर्थः ॥ ७ ॥ तदुत्तरणाय च गुरुप्रवहणं दुर्लभमित्याहगुरु-पवहणु निप्पुनि न लब्भइ तिणि पवाहि जणु पडियउ वुब्भइ । सा संसार-समुदि पइही जेहि सुक्खह वत्ता वि पणट्ठी ॥८॥ १ ग. तथा । २ क. किंचि । ३ ख, ग. सुदुत्तर । ४ ख, ग. सुक्खई । ५ क. जहिं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy