________________
चर्चरी]
जैहि भोयणु न य सयणु न अणुचिउ बइसणेउ सह पहेरणि न पवेसु न दुहउ बुल्लणउँ ॥२१॥ [ यत्र श्रावकास्ताम्बूलं न भक्षयन्ति लान्ति न च यत्रोपानहो धारयान्त न श्रावकाः शुद्धनयाः । यत्र भोजनं न च शयनं नानुचितमुपवेशनं
सह प्रहरणैर्न प्रवेशो न दुष्टं जल्पनम् ॥ २१ ॥] यत्र श्रावकास्ताम्बूलं न भक्षयन्ति, गृह्णन्ति च नैव । यत्रोपानहोऽपि न पारयन्ति मध्ये विशुद्धाचाराः । यत्र न भोजनं शयनं वा नाप्यनुचितं गब्दिकाद्याजनं परिभुञ्जते । सह प्रहरणेन क्षुरिकादिना न प्रवेशस्तन्मध्ये । नापि दुष्टं गालीपदानादिकं भाषणमित्यर्थः ॥ २१ ॥
जहिं न हासु न वि हुड्ड न खिड्ड न रूसणउ कित्तिनिमित्तु न दिई जहिं धणु अप्पणउँ । करौंहि जि बहु आसायण जहिं ति न मेलियहि मिलिय ति केलि केरांति समाणु महेलियहिं ॥ २२ ॥ [ यत्र न हासो नापि होडा न क्रीडा न रोषणं कीर्तिनिमित्तं न दीयते यत्र धनमात्मीयम् । कुर्वन्ति ये बह्वाशातनां यत्र ते न मेल्यन्ते
मिलितास्ते केलीः कुर्वन्ति समं महेलाभिः ॥ २२ ॥] यत्र न हासो नापि हुड्डा प्रसिद्धा नापि क्रीडा द्यूतादिरूपा नापि रोषकरणम्। यत्र गाथक-वैणविकादीनां कलया तुष्टैः श्रावकैर्जिनादिगुणरञ्जितैरेव धनं दीयते, न तु कीर्तिनिमित्तमात्मीयम् । कुर्वन्ति ये नट-विटादयः प्रभूतामाशातनां यत्र ते न संसर्गमानीयन्ते । किमित्यत आह-मिलिता हि सन्तस्ते दुराचाराः केलीः कुर्वन्ति समं महेलाभिरित्यर्थः ॥ २२॥
जहिं संकेति न गहणु न माहि न मंडलउ जहिं सावैयसिरि दीसइ कियउ न विंटले । ण्हवणयार जण मिल्लिवि जहि न विभूसणउ सावयजणिहि न कीरइ जहि गिहचिन्तणउ ॥ २३ ॥ [ यत्र सङ्क्रान्तिन ग्रहणं न माघे न मण्डलकं
यत्र श्रावकशिरसि दृश्यते कृतो न वेष्टनकः । ९७ ख. ग. °उं । ९८ ख. ग. पहिरणि । ९९ ख. ग. करेंति । १०० क. सिसि । १०१ क. विटलड़। १०२ ख. मेल्हेवि । १०३ ख. ग. जणहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org