________________
[जिनदत्तसूरिविरचिता
जहि जलकीडंदोलण हुंति न देवयह । माहमाल न निसिद्धी कयअहाहियर्ह ॥१९॥ [ यत्र रजन्यां रथभ्रमणं कदाचिन्न कार्यते लगुडरासं यत्र पुरुषोऽपि ददद् वार्यते । यत्र जलक्रीडाऽऽन्दोलनं भवति न देवतानां
माघे माला न निषिद्धा कृताष्टाह्निकानाम् ॥ १९ ॥] यत्र रजन्यां रथभ्रमणं कदाचिन्न कार्यते । लगुडरासं यत्र पुरुषोऽप्यास्तां योषिद् ददद् वार्यते । यत्र जलक्रीडास्तथा देवतानामम्बिकाऽऽदीनां चान्दोलनं न भवति । एतद्दोषाश्च रसायनविवरणे किञ्चिदुक्ताः । माघे मासि विशेषेण स्नानादिपूर्वकं प्रतिमाया मालारोपणं तदपि न निषिद्धं कृताष्टाह्निकानां श्रावकाणामष्टाह्निका हि शाश्वतपूजास्ता अवश्यं कार्यास्ताश्च कुर्वद्भिर्योषाऽपि क्रियते तदा क्रियताम् । एतच्च दिगम्बरभक्ताभिनवप्रबुद्धपल्हकश्रावकोपरोधेन प्रभूततरदूषणाभावेन चोक्तम् । तेन 'माहमालजलकीलंदोलण' इत्यादिकवास्तवसार्वदिकमाघमालानिषेधेन रसायनोक्तेन न विरोध इत्यर्थः ॥ १९ ॥
जहि सावय जिणपडिमह कैरिहि पइट न य इच्छाच्छंद न दीसहि जैहि मुद्धगिनय । जहि उस्सुत्तपयट्टह वयणु न निसुणियइ जहि अर्जुत्तु जिण गुरुहु वि गेउ न गाइयइ ॥ २० ॥ [ यत्र श्रावका जिनप्रतिमानां कुर्वन्ति प्रतिष्ठां न च यथाच्छन्दा न दृश्यन्ते यत्र मुग्धाङ्गिनताः । यत्रोत्सूत्रप्रवृत्तानां वचनं न निश्रूयते
यत्रायुक्तं जिन-गुर्वोरपि गेयं न गीयते ॥ २० ॥] यत्र श्रावका जिनप्रतिमानां प्रतिष्ठां न कुर्वन्ति । उमास्वातिवाचकादिविरचितप्रतिष्ठाकल्पादिष्वप्रतिपादितत्वात् । यथान्छन्दा उत्सूत्रभाषका मुग्धप्राणिप्रैणता यत्र व्याख्यानादिप्रवृत्ता न दृश्यन्ते । यत्रात्सूत्रप्रवृत्तानां वचनं न श्रूयते । यत्रायुक्तं विरोध-शृङ्गारातिशयाविर्भावकं जिनाचार्ययोरपि गेयं न गीयत इत्यर्थः ।। २० ॥
जहि सावय तंबोलु न भवहि लिंति न य
जैहि पाणहि य धरंति न सावय सुद्धनय । ८८ ख ग.हिय। ८९ ख. ग. हिकादिशा। ९० ख. ग. प्रल्हक । ९१ ख. ग. इति । ९२ ख, ग, करइ । ९३ क. सुद्धंगि। ९४ ख. ग. अजुत्त। ९५क. प्रताता। ९६ ख. ग. भक्खिहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org