________________
[ जिनदत्तसूरिविरचिता
जिण कर्ये नाणा चित्तई चित्तु हरंति लहु तसु दंसणु विणु पुन्निहिं कउ लब्भइ दुलहु I साई बहु थुइ थुई चित्तई जेण क तसु पयकमल जि पणमँहि ते जण कयसुकय ॥ ७ ॥ [ येन कृतानि नाना चित्राणि चित्तं हरन्ति लघु
तस्य दर्शनं विना पुण्यैः कुतो लभ्यते दुर्लभम् ।
साराणि बहूनि स्तुति - स्तोत्राणि चित्राणि येन कृतानि
तस्य पदकमलं ये प्रणमन्ति ते जनाः कृतसुकृताः ॥ ७ ॥ ]
येन कृतान्यनेकानि चित्राणि नानारूपाणि चक्र - र -खड्गाद्याकारवर्णविन्यासरु - पाणि षट्चक्रिका - सप्तचक्रिका - गजबन्धरूपाणि वा चित्तं हरन्ति लघु । तस्य दर्शनं विना पुण्यैः कथं लभ्यते दुर्लभम् । तथा साराणि गम्भीरमहार्थानि बहूनि स्तुतिस्तोत्राणि चित्राणि गुप्तक्रिय- समसंस्कृतार्धप्राकृतार्ध संस्कृत - गोमूत्रिकाऽऽदिरूपाणि वा येन कृतानि । तस्य पदकमलं ये प्रणमन्ति, ते जनाः कृतसुकृताः । यद्यपि शेषकवयोऽपि चित्रकव्यादिनिष्णातास्तथापि यदृशं श्रीजिनवल्लभसूरेरुपलभ्यते; न तादृशं प्रायोऽन्यस्य श्रूयते । तर्कादिविद्या इव ज्योतिर्गणितादिविद्या अपि सर्वाः पद्मावतीमन्त्रविद्याप्रभृतयश्च तस्य सातिशया आसन्निति सर्वेभ्य उत्कर्षः । तथा चोक्तम्—
(4
योग्यस्थानानवाप्तेः पृथुदवथुमिथोविप्रयोगाग्नितप्तेः
शश्वद् विश्वभ्रमार्तेरपि च तनुतरामात्ममूर्ति दधत्यः ।
सत्यं यद्वक्त्रपङ्केरुहसदसि सहावासमासाद्य सद्यो
विद्याः प्रीत्येव सर्वा युगपदुपचयं लेभिरे भूरिकालात् ॥ " इत्यर्थः ॥ ७ ॥ एवं तर्कादिविद्यानिधानत्वमभिधायाथ सिद्धान्तविषयं तदाहजो सिद्धंतु वियाणइ जिणवयणुब्भविउ सुना विस्रुणि तूसइ होइ जु इहु भवि । पारतंतु जिणि पडिउ विहिविसइहिं कलिउ सहि ! जसु जसु पसरंतु न केण्ड पडिखलिउ ॥ ८ ॥ [ यः सिद्धान्तं विजानाति जिनवद (च) नोद्भूतं
Jain Education International
तस्य नामापि श्रुत्वा तुष्यति भवति य इह भव्यः ।
पारतन्त्र्यं येन प्रकटितं विधि-विषयाभ्यां कलितं
सखे ! यस्य यशः प्रसन्न केनापि प्रतिस्खलितम् ॥ ८ ॥ ]
४८ ख. ग. कइ ।४९ ख. ग. थुत्तई । ५० ख. कयं । ५१. काव्यनि । ५२ क. जिन । ५३ क. नाम ।
For Private & Personal Use Only
www.jainelibrary.org