________________
चर्चरी]
यः सिद्धान्तं विजानाति जिनवदनोद्भूतम् , अर्थतो वा जिनवचनो तं तस्य नामापि श्रुत्वाऽऽस्तां दर्शनादि, तुष्यति भवति य इह भव्यः । गुरुपरतन्त्रैः सर्व कृत्यं क्रियते इति पारतन्त्र्यं येन प्रकटितम् । सर्वत्रापि चैत्य-साध्वादौ शुद्धजिनाज्ञाप्रवृत्तिरूँपो विधिः । सम्यक्त्वादेर्मिथ्यात्वादिपरिहार इव देवपूजाऽऽदेः सर्वथा आशातनादिपरिहारेण जिनप्रतिमादेश्चारित्रादेवाऽतीचारपंरिहारेण साध्वादिविषयः । ताभ्यां कॅलितं ज्ञानादित्रयवदेतत्त्रयस्यापि मोक्षाङ्गत्वात् । सखीति चर्चरीरूपत्वात् सम्बोधनम् । यस्य यशः प्रसरत् न केनापि प्रतिस्खलितम्, तत उत्कृष्टस्यान्यस्याभावादित्यर्थः ॥ ८॥
जो किर मुत्तु वियाणइ कहइ जु कारवइ करइ जिणेहि.जु भासिउ सिवपहु दक्खवइ । खवइ पार्दू पुवज्जिउ पर-अप्पह तणे तासु अदंसणि सगुणहिं झूरिज्जइ घणउं ॥९॥ [ यः किल सूत्रं विजानाति कथयति यः कारयति करोति जिनैर्यद् भाषितं शिवपथं दर्शयति । क्षपयति पापं पूर्वार्जितं परात्मनोः सम्बन्धि
तस्यादर्शनेन सगुणैः खिद्यते प्रभूतम् ॥ ९॥] यः किल सूत्रं विजानाति, कथयति भव्येभ्यः । कारयति च तैरेव देशनाद्वारेण । करोति जिनैर्यद् भाषितं मोक्षमार्ग दर्शयति । एवंविधश्च सन् क्षपयति पापं पूर्वार्जितं परात्मनोः सम्बन्धि । तस्यादर्शनेन सगुणैः खिद्यते प्रभूतमित्यर्थः ॥ ९॥
परिहरि लोयपवाहु पयहिउ विहिविसउ पारतंति सहु जेण निहोडि कुमग्गसउ । दंसिउ जेण दुसंघ-सुसंघह अंतरउ । वद्धमाणजिणतित्थह कियउ निरंतरउ ॥ १० ॥ [परिहृत्य लोकप्रवाहं प्रवर्तितो विधिविषयः पारतन्त्र्येण सह येन निराकृत्य कुमार्गशतम् । दर्शितं येन दुःसङ्घ–सुसङ्घयोरन्तरं
वर्धमानजिनतीर्थस्य कृतं निरन्तरम् ॥ १०॥] परिहत्य लोकप्रवाहमविधिप्रवृत्तचैत्यसाधुभक्त्यादिकं प्रवर्तितो विधिर्विषयश्च पारतन्त्र्येण सह । एतत्स्वरूपं च पूर्वमेवोक्तम् । येन निराकृत्य कुमार्गशतं दर्शितं
५४ क. तो जिन'। ५५ क. °तं बा। ५६ क. रूपा । ५७ ख. ग. मादि । ५८ ख. ग. परी'। ५९ क. कलितज्ञा ।६० क. चच्चरी' । ६१ क. पाव । ६२ क. तणउ । ६३ क. सूरि । ६४ क. संघहं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org