________________
चर्चरी]
" कवयः कालिदासाद्याः कवयो वयमप्यमी ।
पर्वते परमाणौ च वस्तुत्वमुभयोरपि" ॥" तावद् यावज्जिनवल्लभो महाकविर्नाकर्ण्यते । तदुक्तम्" चित्रं चित्रं वितन्वन् नवरसरुचिरं काव्यमन्यच्च भूयः
सवै निर्दोषमह्नो मुखमिव सगुणत्वेन पट्टांशुकश्रि । कान्तावत् कान्तवर्ण भरतनृपतिवञ्चालङ्कारसारं
___ चक्रे माघादिसूक्तेष्वनभिमुखमहो ! मानसं धीमतां यः ॥" अल्पं चित्रं चक्र-मुसलादिरूपं ये परिजानन्ति, तदपि विशुद्धं यथावस्थितं नैव । तेऽपि चित्रकविराजीः सर्वचित्रकविपूत्कृष्टा भण्यन्ते लोकैर्मुग्धनता इत्यर्थः ॥५॥
सुकइविसेसियवयणु जु वप्पइराउका सु वि जिणवल्लहपुरउ न पावइ कित्ति कइ । अवरि अणेयविणेयहिं सुकेइ पसंसियहिं तक्कचामयलुद्धिहिं निच्चु नमंसियहिं ॥६॥ [ सुकविविशेषितवचनो यो वाक्पतिराजकविः सोऽपि जिनवल्लभपुरतो न प्राप्नोति कीर्ति काञ्चित् । अपरेऽनेकविनेयैः सुकवयः प्रशस्यन्ते ।
तत्काव्यामृतलुब्धैर्नित्यं नमस्यन्ते ॥ ६ ॥ सुकविभिर्विशेषितमतिशयपदवी प्रापितं सुकविभ्यो वा संस्कृतकाव्यकर्तृभ्यो विशेषितं केवलप्राकृतप्रबन्धरूपं वचनं गौडवधादिप्रबन्धरूपं यस्य स तथा । यो वाक्पतिराजकविर्यकीर्तिश्रुतिकुतूहलितदूरदेशान्तराँयातेषु विद्वत्सु स्वरूपानुयोगे सति यद्भार्या तान् प्रति प्रत्युत्तरमेवमूचे
" (१'होहिंति केचि जे ते न याणिमो जे गया नमो ताण । __ संपइ इह जे कइणो ते मह पइँणो न सारिच्छा ॥"
सोऽपि" इह जिनवल्लभस्य पुरतो न पाण्डित्यकीर्ति काञ्चन प्राप्नोति । अपरेऽपि बाण-मयूरप्रभृतयोऽनेके विनेयैस्तच्छिष्यैरेव सुकवयः प्रशस्यन्ते । तत्काव्यामृतलुब्धैश्च नित्यं नमस्यन्ते । इति तेऽपि तत्साम्यं न प्राप्नुवन्तीति भावार्थः।।६।। (१) भविष्यन्ति केचिद ये तान् न जानीमो ये गता नमस्तेभ्यः ।
सम्प्रतीह ये कवयस्ते मम पत्युर्न सदृशाः ॥ ३३ ख. ग. रिति। ३४ ख. 'श' । ३५ ख. ग. 'राजः । ३६ क. विसेसिव । ३७ क. कित्त। ३८ क. °विणेइहि । ३९ क. सुकय। ४० ख. ग. वचनरूपं गौडबंधादि। ४१ क. रातेषु । ४२ ख.ग. केवि। ४३ ख. ग. ये। ४४ क. पयणो । ४५ क. पि जिन । ४६ क. स्यंते ते । ४७ क. ति भाव इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org