SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ चर्चरी] परिच्छेद्यो गुणैरिति गम्यते । एतानि हि सदभ्यस्ततया निजनामवजानाति । न च तद्वदन्यो घनानि प्रभूतानि । परेऽन्ये प्रकृष्टा वा परिवादिनो जैनमतापभाषणशीलास्त एव गजेन्द्रास्तेषां विदारणं सर्वथा निराकरणं तत्र पञ्चमुखः सिंहः । तस्य भगवतो गुणवर्णनं कर्तुं कः शक्नोत्येकमुख इत्यर्थः ॥२॥ जो वायरणु वियाणइ सुहलक्खणनिलउ सद असदु वियारइ सुवियक्खणतिलँउ । सुच्छंदिण वक्खाणइ छंदु जु सुजइमर्ड गुरु लहु लहि पइठावइ नरहिउ विजयमचें ॥३॥ [ यो व्याकरणं विजानाति शुभलक्षणनिलयः शब्दमशब्दं विचारयति सुविचक्षणतिलकः । सुच्छन्दसा व्याख्यानयति छन्दो यः सुयतिमतः गुरुं लघु लब्ध्वा प्रतिष्ठापयति नरहितो विजयताम् ॥ ३॥] यो व्याकरणं शब्दलक्षणशास्त्रं शास्त्रान्तरमहाकाव्यादिविधाननिबन्धन विजानाति । एतदन्तरेण हि शास्त्रान्तरानिष्पत्तेः । तथा चोच्यते " अनधीत्य शब्दशास्त्रं योऽन्यच्छास्त्रं समीहते कर्तुम् । सोऽहेः पदानि गणयति निशि तमसि जले चिरैंगतस्य ॥" शुभलक्षणानां सामुद्रिकोक्तानां निलयस्तच्छरीरस्य तन्निवासत्वात् । वैयाकरणत्वाञ्च शब्दं व्युत्पत्तिवैकल्यदोषरहितम् , अपशब्द चापभ्रष्टं तद्दोषसहितं विचारयति सुविचक्षणानां तिलकः । तथा शोभनाभिप्रायेण च्छन्दः पद्यलक्षणशास्त्रं यो व्याख्यानयति । सुयतीनां सुमुनीनां मतोऽभीष्टः । गुरुं गुणाढ्यं लघुमल्पगुणं लब्ध्वा विज्ञाय पदे आचार्यादौ वैयावृत्यकरत्वे चास्थापयति नरहितः समस्तमनुजजात्यनुकूलः । विवादादौ परवादिनिराकरणेन विशिष्टो जय उत्साहविशेषस्तनिवृत्तः । अथवा च्छन्दस एव एतानि विशेषणानि । छन्दसि च विरतियेतिरष्टौ च मकारादयो मात्रासमूहरूपा गणा भवन्ति । “ मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुश्च तथाऽऽदिलघुर्यः । जो गुरुमध्यगतो रलमध्यः सोऽन्त्यगुरुः कथितोऽन्त्यलघुस्तः ॥" ततश्च सुयतयः शोभना विरामा गुरु-लघू एकमात्र-द्विमात्रको वर्णी पदं च स्थानं गुरू; आर्यायामर्धद्वयेऽपि पर्यन्तवर्तिनौ । द्वितीयार्धे तु षष्ठं स्थानमित्यादिकम् । नरौ नगण-रगणौ विशिष्टौ जगण-यगणौ तदभिमतमित्यर्थः ॥ ३ ॥ १५ ग परवा' । १६ ख.ग,भव' । १७ स.ग. तिलओ। १८ ग.क.मओ। ११ क. विजयओ। २०ख.ग. गस्य । २१ख.ग. वैयकल्प। २२क.मनो। २३ख.ग.वा।२४ क. वृत्तः। २५ख.ग.सांत्य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy