________________
ग्रन्थका निजसत्ताकालस्य विक्रमीयद्वादशशतसंवत्सरस्य विषमं स्वरूपमपि किञ्चित पर्यदार्श । ग्रन्थकर्तुः स्वर्गवासः सं. १२११ वर्षेऽजयमेरुदुर्गे समजनि [भूमिका पृ. ५२] अत्र च व्यतीतस्य विक्रमीयद्वादशशतसंवत्सरस्य स्वरूपसूचनमकारीति ग्रन्थका निजायुषः प्रान्ते सप्ततितमवर्षप्राये वृद्धवयस्येतद् व्यधायीति विज्ञायते ।
अस्य पञ्चविंशतितमे पद्ये ग्रन्थका 'चाहिल'नाम निरदोश, वृत्तिकारेण तद्व्याख्यायां समसूचि यथाऽणहिलपाटकपत्तनवास्तव्यस्य प्रस्तुतग्रन्थकृजिनदत्तसूरिसमुपासकस्य चाहिलस्य विज्ञप्त्या यशोदेवाभू-आसिग-सम्भवानां पृथग्धर्माश्रितानां तत्पुत्राणां प्रतिबोधार्थमेतत् कुलकं प्रणीय प्रतिलेखरूपेण प्रेषितमासीत् । अनन्तरं च तेऽपि विधिधर्माराधका अभूवन् । कुमारपालभूपालराज्यप्रारम्भे तस्य जैनधर्मस्वीकारात् प्रागेषा घटना विभाव्यते । उपर्युक्तायामेव गाथायां 'बहुत्तु खरउ' पदं प्रयुज्य ग्रन्थकर्ता निजाभिमतस्य विधिपथस्य 'खरतर' इति गच्छसंज्ञा ध्वनिता वितय॑ते । विधिपथस्यैव तस्य कालक्रमेण प्रचलिता 'खरतरगच्छ' इत्यभिधाऽद्यावधि विद्यते ।
· अस्य कुलकस्य प्रारम्भे 'सुगुरूवएमु' प्रान्ते च 'जिणदत्तुवएसु' इति पदप्रयोगद्वारा ग्रन्थकाऽत्रोपदेशरूपाभिधेयं संसूच्यास्य 'उपदेशकुलक' संज्ञाऽप्युपालक्षि ।
उपसंहारः। ग्रन्थत्रयीविलोकनेन तत्कर्तुजैनसिद्धान्त-व्याकरण-काव्य--च्छन्दोऽलङ्कार-ज्योतिःशास्त्रप्रभृतिषु प्रावीण्यं परिज्ञायते । मूलग्रन्थकारस्य व्याख्यात्रोश्च गुरुशिष्यपारम्पर्यसम्बन्धेन समयसामीप्येन च व्याख्यासु क्वचित् क्वचिन्निबद्धा विशेषता विश्वासार्हा व्यज्यते । अस्याः काव्यत्रय्या विषयसूची तु पृथगुपनिबद्धति नात्र तद्विषये प्रयत्यते ।
अस्याः सम्पादनेऽत्रत्यसङ्ग्रहस्था पुस्तकत्रयी तथा चैका छाणीजैनज्ञानमन्दिरीया प्रतिरुपयुक्ताऽभवत् । क. संज्ञिकायामष्टादशपत्रात्मिकायां नात्यर्वाचीनायां प्रतौ १-७+७+१५+१५-१८ तमेषु पत्रेषु क्रमेण सवृत्तेरपि काव्यत्रय्याः समावेशः। अन्या च नवपत्रात्मिका चर्चर्याः प्रतिः 'ख' संज्ञिका । इतरा च दशपत्रात्मिका प्रतिरुपदेशरसायनस्य 'ख' संज्ञिता, 'ग' संज्ञिता चैकादशपत्रात्मिका छाणीजैनज्ञानमन्दिरीया नूतना प्रतिः । कालस्वरूपकुलकस्यात्रत्यायाः पत्रत्रयात्मिकायाः पश्चादुपलब्धायाः 'ख' संज्ञितायाः प्रतेः पाठभेदस्तु प्रान्ते पृथग् दर्शितः ।
छाणीजैनज्ञानमन्दिरीया प्रतिः प्रवर्तकश्रीकान्तिविजयमुनिराजस्य कृपया प्राप्ता । तथा भूमिकाऽऽलेखने गणधरसार्धशतकबृहद्वत्तेरुपदेशपदव्याख्यायाश्चतुष्पञ्चाशन्महापुरुषचरितप्रभृतेश्चादर्शपुस्तकानि मुनीशहंसविजयशास्त्रसङ्ग्रहादत्रत्यजैनज्ञानमन्दिरतः पंन्यास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org