SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रस्तुतायाश्चर्या रचनास्थलं वाग्जड( वागड )देशे व्याघ्रपुरमिति वृत्तिकारण वृत्तिप्रारम्भे, सुमतिगणिना च गणधरसार्धशतकवृत्तौ ( भूमिका पृ. ५० )समसूचि । रचनासमयश्च विक्रमीयद्वादशशताब्द्या उत्तरार्धरूपः । वृत्तिकारसतीर्थेन सुमतिगणिना वि. सं. १२९५ वर्षे विनिर्मितायां गणधरसार्धशतकवृत्तौ (लि. प. ३५६, ३८१ ) अस्याश्चर्याः १६, १८, २१-२५ तमानि पद्यानि समुद्धृतानि । अस्याः प्रारम्भपद्यव्याख्यायां व्याख्याकारेण कुन्दनामकं च्छन्दः पर्यवबोधि । उपदेशरसायनम् ।। सुगुरु-कुगुरु-सुपथ-कुपथविवेचकं लोकप्रवाह-चैत्याविधिनिरोधकं विधिचैत्य-विधिधर्मस्वरूपावबोधकं श्रावक-श्राविकाऽऽदिशिक्षाप्रदं धर्मोपदेशपरं चैतदपि द्वादशशाताब्द्या उत्तरार्धे प्रणीतं सम्भाव्यते । प्राकृतापभ्रंशप्रायेष्वेतादृग्ग्रन्थेषु वृत्तिविरचनपद्धतिर्नास्तीति सूचयन्नस्य संस्कृतवृत्तिकार: " चर्चरी-रासकप्रख्ये प्रबन्धे पाकृते किल । वृत्तिप्रवृत्तिं नाधत्ते प्रायः कोऽपि विचक्षणः ॥ प्राकृतभाषया धर्मरसायनाख्यो रासकश्चक्रे । इत्यादिनोलेखेनात्र दर्शितस्यापभ्रंशलक्षणसिद्धस्यापि ग्रन्थत्रयस्य प्राकृतभाषामयत्वमसूचयत्, अपभ्रंशभाषायाः प्राकृतात्मकत्वात् सामान्यापेक्षया तथोक्तावपि न काऽपि क्षति: । अपभ्रंशभाषालक्षणलक्षितानां ग्रन्थानां प्राकृतत्वेन प्रसिद्धिः प्राचीना। ___ अशीतिवृत्तात्मकं पादान्तयमकं मनोहरमेतद् राससंज्ञितं काव्यं षोडशमात्राऽऽ. त्मकपादपरिकलितं पद्धटिकाबन्धबद्धं गीतिकोविदः सर्वेषु रागेषु गीयत इति वृत्तिप्रारम्भेऽत्र प्रत्यपादि । प्राकृतपिङ्गल-गाथालक्षण-स्वयम्भूच्छन्दः-च्छन्दोऽनुशासनप्रभृतिषु च्छन्दोलक्षणग्रन्थेषूपलभ्यते पद्धटिका(पज्झडिया)च्छन्दोलक्षणस्मरणम् । आपलीसङ्घीयस्वयम्भूकविना पद्धटिका(पद्धडी)बन्धं रामायणमपभ्रंशभाषायां विरचितमासीदिति श्रूयते अमरकीर्तिमहाकविः वि. सं. १२७४ वर्षे विनिर्मिते षट्कर्मोपदेश( छकम्मुवएस )संज्ञकेऽपभ्रंशग्रन्थे सूचयामास निजां कृतिं यशोधरचरितसंज्ञां पद्धटिकाबन्धपरिकलितामित्यादिना परिज्ञायते पद्धटिकापद्ये पुरातनानां समादरः । प्रस्तुतस्य रसायनस्य ४, ६, २७, २९, ३३, ३४, ६९, ७१ प्रभृतीनि पद्यानि वि. सं. १२९५ वर्षे विनिर्मितायां गणधरसार्धशतकबृहद्वत्तौ ( प. ३-६७-३७० ) वृत्तिकारसतीर्थ्येन सुमतिगाणनोपात्तानि प्रेक्ष्यन्ते । कालस्वरूपकुलकम् ।। यमकालङ्काराद्यलङ्कतं द्वात्रिंशभिः पूर्वोक्तपद्धटिकापोरेव गुम्फितमुपदेशपरमप्येतत् संस्कृतवृत्तिकाराभिप्रायेण · कालस्वरूपकुलक' संज्ञयाऽत्र प्राख्यापि । अस्य प्रारम्भे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy