________________
चर्चरी। प्राकृतापभ्रंशादिभाषायां ' चच्चरी' ' चाचरि' इति नाम्ना संस्कृतभाषायां च 'चर्चरी' इति संज्ञया प्रसिद्धाया गीतेनृत्यपूर्व गान-क्रीडन-गुम्फनादिपद्धतिः प्राचीना परिज्ञायते यतः कविकालिदासो विक्रमोर्वश्याश्चतुर्थेऽङ्के प्रभूतानि चर्चरीपद्यान्यपभ्रंशभाषायां व्यरचयत् । हरिभद्रसूरि: समरादित्यकथाऽऽदौ, दाक्षिण्यचिह्नोद्यतनाचार्यः कुवलयमालाकथाऽऽदौ, शीलाङ्काचार्यश्चतुष्पञ्चाशन्महापुरुषचरिते, कविः श्रीहर्षो रत्नावलीनाटिकायाः प्रारम्भेऽन्ये चान्यत्र स्मरन्ति स्म चर्चरीम् । पिङ्गलनाग-हेमचन्द्रादयः प्रतिपादयन्ति स्म चर्चरीलक्षणानि निजे च्छन्दःशास्त्र-च्छन्दोऽनुशासनादौ ।
प्रासिद्धयत खलु कविसोलणकृता चर्चरी इत एव प्रकाशिते प्राचीनगूर्जरकाव्यसङ्ग्रहे । उपलभ्यते चान्या पत्तनीयजैनभाण्डागारादौ वेलाउलीरागण गीयमाना शत्रुञ्जयमण्डनादिजिनस्तुतिरूपा पञ्चत्रिंशद्गाथाप्रमाणा प्रायो विक्रमीयचतुर्दशशताब्दीसम्भवा, इतरा.च गूर्जरीरागेण गीयमाना गुरुस्तुतिरूपा संक्षिप्ता पञ्चदशगाथापरिमिता ।
यमकालङ्काराद्यलङ्कता प्रस्तुता चर्चरी तु सप्तचत्वारिंशत्पद्यप्रमिता जिनवल्लभसूरिस्तुतिरूपा चैत्यविधिप्रधाना संस्कृतवृत्तिसमन्विता वृत्तिकृत्सूचनानुसारेण पढ( ट )मञ्जरीभाषया नृत्यद्भिर्गीयमाना च ज्ञायते । पटमञ्जरीरागोऽसूचि खलु नारदकृते इत एव प्रकाशिते सङ्गीतमकरन्दादौ । दृश्यन्ते प्रभूतानि पटमञ्जरीपद्यानि विक्रमीयसप्तमशताब्दीसम्भूतै इपादप्रभृतिभिर्विरचितेषु चर्याचर्यविनिश्चयादिषु श्रीयुतमहामहोपाध्यायहरप्रसादशास्त्रिमहाशयैः सम्पादिते बङ्गीयसाहित्यपरिषदा प्रकाशिते ‘बौद्ध गान ओ दोहा' संज्ञके पुस्तके । वि. सं. १३५८ वर्षे पढमञ्जरीभाषया रचितं गौतमचरितकुलकमुपलभ्यते पत्तनीयजैनभाण्डागारे । अनेन पट(ढ)मञ्जरीरागस्य चिरात् प्रतिष्ठाऽवसीयते ।
१ “जहा तेण केवलिणा अरणं पएसिऊण पंच चोरसयाइं रासणचणच्छलेण महामोहगहगहिआई अक्खिविऊण इमाए चच्चरीए संबोहियाई । अवि य
संबुज्झहू किण्ण बुज्झह एत्तिल्लए वि मा किंचि मुज्झह । कीरउ जं करियव्वयं पुण दुकइ तं मरिअव्वयं ।। ति धुवयं । कसिणकमलदललोयणचलक्खेहिं तउ पीणपिहुलथणकडिअलभारकिलंतउ । तालयलिरयलयापलिकलयलसद्दउ रासयम्मि जइ लभइ जुअतीसत्थउ ॥ संबुज्झह किण्ण बुज्झह० पुणो धुवयं ।"
-कुवलयमालाकथायाम् जे. भा. ता. ३]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org