________________
११३
काव्यत्रयी-परामर्शः। प्रस्तुतायाः काव्यत्रय्याः कर्तृविषये कविगुरुविषये व्याख्यातृविषयेऽपभ्रंशभाषाविषये च वक्तव्यमुपरि प्रादर्शि । अथ तस्या रचनाऽऽदिविषयेऽपि किञ्चिद् वक्तव्यमुचितम् ।
सुप्रतिष्ठिते खलु जैनशासने दुश्चरेषु साधूनामाचारेषु करालकालवैषम्यविलसितेन शैथिल्यं प्रोजज़म्भे, यतोऽत्रैव खलु गूर्जरत्राया राजधान्यामणहिलपाटके
चैत्यवासियतिनां प्राबल्यं प्रास्फुरत् । अस्मिंश्च समये चान्द्रकुलीनवर्धमानसूरिशिष्यो जिनेश्वरसूरिरविरुदगात् । येनाणहिलपाटकपत्तने चौलुक्यदुर्लभराजराजपर्षदि वादे
चैत्यवासिनो विजित्य यतिनां चैत्यवासो न्यषेधि, वसतिवासश्च प्रचकाशे ( विलोकनीयं परि०२, पृ. ९५-९६; परि० ३, पृ. १०८; भूमिका पृ. १०; जे. भा. सूची पृ. २ ) गणधरसार्धशतकवृत्त्यादेश्च यच्चरितमुपलभ्यते ।
__वि.सं.१०५५वर्षे उपदेशपदटीकाकर्तुर्वधमानसूरेः शिष्योऽयं स एव जिनेश्वरसूरिरभिज्ञेयो येन वि. सं.१०८० वर्षे जावालिपुरे हारिभद्रीयाष्टकानां सुप्रसिद्धा वृत्तिः, प्रसिद्ध प्रमालक्ष्म-पञ्चलिङ्गी-षट्स्थानकप्रकरणादि च प्राणायि । यत्कृतेलीलावतीकथायाः कथाकोषस्य च सूचनमस्माभिरकार्यन्यत्र (जे. भां. सूची, अप्रसिद्ध० ५०,५६) यबन्धुर्बुद्धिसागरसूरिः वि. सं.१०८० वर्षे जावालिपुरे पञ्चग्रन्थीशब्दलक्ष्मप्रति प्रणिनाय । यच्छिष्यो धनेश्वरसाधुर्जिनभद्रसूरिः वि. सं. १०९५ वर्षे चड्डावलि( चन्द्रावती )पुर्या सुरसुन्दरीकथां जुगुम्फ, जिनचन्द्रसूरिः वि. सं. ११२५ वर्षे संवेगरङ्गशालां निर्मिमाय, सुप्रसिद्धोऽभयदेवसूरिश्च वि. सं. ११२०-८ वर्षेषु पत्तनादौ नवाङ्ग-पञ्चाशकादिवृत्तीळधत्त स्तम्भने पार्श्वप्रतिमां च प्रत्यष्ठापयत् [अत्र भूमिका परिशिष्टं जे, भां. सूची च वीक्षणीया]
विक्रमीयैकादशशताब्द्यां जिनेश्वरसूरिणैवं प्रस्फुटं चैत्यवासादिशैथिल्ये प्रतिहते प्रभूतैर्वसतिवासे स्वीकृतेऽपि कैश्चिन्निजकदाग्रहो नैवात्यजि, तन्मूलोऽविधिश्च जिनगृहादौ नैव विररामेति विक्रमीयद्वादशशताब्द्यां चैत्यवासिनामेकतमोऽपि चैत्यवासिदीक्षितोऽपि वसतिवासिनवाङ्गीवृत्तिकाराभयदेवसूरिशिक्षितो जिनवल्लभसूरिस्तन्निवारणाय प्रायतत ।
अत्र भूमिकायां चर्चर्यादौ गणधरसार्धशतके [ परि० २] सुगुरुपारतन्त्र्ये [ परि० ३ ] च यो विस्तरेण परिचयं प्रापितस्तेन जिनवल्लभसूरिणा प्राक् चित्रकूटे विधिपथः प्रचकाशे, यदीयं सामान्यस्वरूपमेतदीयकृतेः सङ्घ पट्टकात् [परि० १] समवबुध्यते । तस्यैव विधिपथस्य विशेषस्वरूपविज्ञानाय तत्कालप्रसृतप्रतिक्षिप्ताविधिविज्ञानायापि च प्रभवति खलु प्रस्तुता काव्यत्रयी, या तदीयपट्टधरेण जिनदत्तसूरिणा प्रणीता, तत्प्रशिष्याभ्यां जिनपाल-सूरप्रभोपाध्यायाभ्यां च व्याख्याता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org