________________
११७
सम्पद्विजयमुनिराजस्य कृपया सम्प्राप्तानि । *कुवलयमालाकथाया जिनदत्तसूरिस्तुतेश्च [ परि०४ ] जेसलमेरुदुर्गभाण्डागारीय-ताडपत्रीयादर्शपुस्तकं पञ्चशतवर्षप्राच्यताडपत्रीयपुस्तककाष्ठपट्टिकागतं २६३" x ३३" प्रमाणपरिमितं परिचरपरिवृतस्य जिनवल्लभजिनदत्तसूरिद्वयस्य चित्रफलकं च जिनकृपाचन्द्रसूरेः प्रसादेनात्रोपायोजीति ते धन्यवादार्हाः । किञ्च भूमिकायां [पृ. ५६] सूचिताया वि. सं. १३३४ वर्षे प्रतिष्ठितायाः प्रस्तुतग्रन्थकारजिनदत्तसूरिमूर्तेः प्रतिकृतिरपि विरचय्यात्र प्रागेवास्थापि ।
___ अत्राभिलषितः कृतप्रायोऽपि चापभ्रंशशब्दानां कोषः प्रसिद्धप्राकृतशब्दकोषेण प्रायो गतार्थत्वाद् भूमिकाऽऽदिदर्शनविलम्बमसहिष्णूनां शीघ्रमेतद्दिदृक्षूणां विदुषां प्रेरणया चोपेक्षितः । अत्र च कार्येऽत्रत्याध्यक्षैः डॉ. विनयतोष भट्टाचार्य एम्. ए. पी. एच्.डी. महाशयैस्तथा श्रीयुत जी. के. श्रीगोन्देकर एम्. ए. इत्यनेन, के. रङ्गस्वामिशास्त्रिणा च प्रासङ्गिक साहाय्यं प्रदाय प्रोत्साहितोऽस्मीति ते प्रशंसामर्हन्ति ।
सपादशतग्रन्थानामाधारभूतया भूमिकया संस्कृतच्छायया विषयसूच्या विशिष्टनामसूच्या च विभूषिते परिशिष्टैः पाठान्तरमूर्ति-चित्रप्रतिकृतिप्रभृतिभिश्च पर्यलङ्कृते संस्कृतवृत्तिसमन्विते ग्रन्थत्रयीगौरवितेऽस्मिन् ग्रन्थे मम मतिदौर्बल्येन प्रमादाद् दृष्टिदोषाद् वा काश्चित् स्खलना जाताः सम्भवेयुस्ताः परिशोधनीयाः सूचनीयाश्च कृतकृपैर्विद्वद्भिरिति प्रार्थयते
गान्धीत्युपाख्यो भगवान्दासतनयः ता. २४-१२-२६
लालचन्द्रः ।
* कुवलयमालाकथायाः संक्षिप्तपरिचयोऽस्माभिः सं. १९७८ वर्षे जेसलमेरुदुर्गभाण्डागारीयग्रन्थसूच्यामप्रसिद्धग्रन्थ-ग्रन्थकृत्परिचये[ पृ. ४२-४३ ]ऽकारि, तदैव च तदन्तर्गतापभ्रंशाष्टादशदेशीभाषाऽऽद्युल्लेखोऽत्रत्यजैनज्ञानमन्दिरीयाचिरलिखितपुस्तिकातः समग्राहि, वि. सं. १९८० वर्षे भावनगरे सप्तमगूर्जरसाहित्यपरिषदि च तदुपयुक्तलेखोऽपाठि। अस्मादवतारितः कियानंशः मो. द. देशाई इत्यनेन ‘जैन गूर्जर कविओ' संज्ञकपुस्तके । सं. १९८१ वर्षे पण्डितबेचरदासेन प्राकृतव्याकरणप्रवेशकार्थ पूर्वोक्तोऽस्मत्सङ्ग्रहोऽयाचि । सं.१९८२ वर्षे मया जेसलमेरुदुर्गस्थं जिनकृपाचन्द्रसूरि विज्ञप्य तत्रत्यभाण्डागारीयादर्शपुस्तकस्याभीष्टाः पाठाः समुदतारिषन्त । अस्मिश्च सं.१९८३वर्षे मार्गशीर्षमासे प्रवर्तकश्रीकान्तिविजयविनेयस्य कुवलयमालाकथासंक्षेपादिसंशोधकस्य मुनिराजचतुरविजयस्य प्रेरणया जेसलमेरुदुर्गभाण्डागारं साक्षाद् द्रष्टुं प्राभवम् । ततः स्वयं दृष्ट्या तदादर्शपुस्तकम् , विलक्षणलिपेस्ततो भूरिपरिश्रमेणोद्धृतानुपयुक्तानंशानत्र प्रसङ्गतो विदुषां भाषाविज्ञानवृद्धि-परितुष्टये प्रादर्शयम् । कुवलयमालाकथा-विलासवतीकथाप्रभृतेस्ताडपत्रीयपुस्तिकानां प्रतिकृतीश्चापि ( Photo-copies) साम्प्रतं समग्राहयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org