________________
१००
अपभ्रशवाङमयम
जिनदत्तसूरिः" संस्कृते प्राकृते चैव शौरसेने च माँगधे। पैशौचकेऽपभ्रंशे च लक्ष्यं लक्षणमादरात् ॥"
--विवेकविलासे [उ. ८, श्लो० १३१ ] अमरचन्द्र :-- "संस्कृतं प्राकृतं चैव शौरसेनी च मार्गंधी। पैशाचिकी चापभ्रंशं षड् भाषाः परिकीर्तिताः॥"
--काव्यकल्पलतावृत्तौ [प. ८ ] अपभ्रंशभाषानिबद्धं वाङ्मयं प्रभूतमुपलभ्यते, तच्च स्वल्पमेवाद्यासाल वधि प्रसिद्धिमधिगतम् । श्रीमन्महोपाध्यायहरप्रसादशास्त्रेिणा सम्पा
दिते बङ्गीयसाहित्यपरिषदा प्रकाशिते 'बौद्ध गान ओ दोहा'संज्ञके पुस्तके विविधकर्तृणि विक्रमीयसप्तमाष्टमशताब्दीसम्भूतानि काव्यानि बङ्गीयलिप्यां प्रसि. द्धिमधिगतानि । मुम्बापुरीराजकीयसंस्कृतग्रन्थमालया प्रकाशिते सुप्रसिद्धहेमचन्द्राचार्यस्य प्राकृतशब्दानुशासनसंवलिते प्राकृतद्वयाश्रयमहाकाव्येऽन्यत्र प्रसिद्ध च्छन्दोऽनुशासनादौ च प्रतिष्ठा खल्वपभ्रंशपद्यानाम् । तथा योगीन्द्रदेवविरचितपरमात्मप्रकाश-योगचन्द्रमुनिप्रणीतयोगसारप्रभृतयो ग्रन्था अभयदेवसूरिप्रभृतिभिः प्रणीताः 'जय तिहुयण' इत्यादिसंज्ञया प्रथिताः स्तोत्रप्रबन्धाश्च प्रसिद्धा येऽपभ्रंशभाषाप्रतिष्ठां सूचयन्ति । धर्कटवणिग्धनपालविरचिता भविष्यदत्तकथा या दशमशताब्दीभवा वितक्यते, साऽस्यां ग्रन्थमालायां ( गा. ऑ. सिरीझ् क्र. २० ) पूर्व प्रसिद्धा, या डॉ. हर्मण् याकॉबीमहाशयेन जर्मनभाषायां रोमनलिप्यां च प्राक् सम्पादिता । सोमप्रभाचार्येण वि. सं. १२४१ वर्षे सन्दर्भितः कुमारपालप्रतिबोधग्रन्थोऽस्यां ग्रन्थमालायां (गा. ऑ. सिरीझ् क्र. १४ ) प्रसिद्धस्तत्रापि कियानंशोऽपभ्रंशभाषायामिति मुविदितं विदुषाम् । इत एव प्रकाशिते प्राचीनगूर्जरकाव्यसङ्ग्रहे प्रसिद्धानि द्वादश-त्रयोदश-चतुर्दशपञ्चदशशताब्दीजातानि गद्य-पद्यरूपाणि काव्यानि तत्सदृशान्यपराण्यपि चापभ्रंशसंज्ञयाऽपि वक्तुं शक्यते रुद्रट-वाग्भट-रामचन्द्रादिमतेन ।
वि. सं. ११७४ वर्षे यशोदेवोपाध्यायेन नवतत्त्वभाष्यविवरणे [५१] मुकुटसप्तमीसन्धिबन्धमाणिक्यप्रस्तारिकाप्रतिबद्धरासयोनार्मनी सूचिते । एवं सम्प्रत्यदृष्टचरमपि श्रीहेमचन्द्राचार्येण काव्यानुशासने [ अ, ८, पृ. ३३७ ] समसूचि-' अपभ्रंशभाषानिबद्धमब्धिमथन-भीमकाव्यादि । वि. सं. ११२३ वर्षे सिद्धसेनसूरिणा साधारणाकेन सन्दर्भिता विलासवतीकथा, वि. सं. १२१६ वर्षे कुमारपालराज्ये हरिभद्रसूरिणा रचितं नेमिनाथचरितम्, महेश्वरसूरिणा निर्मिता संयममञ्जरी चापभ्रंशभाषायां जेसलमेरुदुर्गीयभाण्डागारे विद्यते इति परिदार्शतमस्माभिस्तत्सूच्याम् (गा. ऑ. सिरीझ्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org