SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ " तस्यां राजासनम् । तस्य चोत्तरतः संस्कृताः कवयो निविशेरन् । ......................पूर्वेण प्राकृताः कवयः ।................ .......................पश्चिमेनापभ्रंशिनः कवयः।............ ........................दक्षिणतो भूतभाषावयः ।.........." -~-काव्यमीमांसायाम् [अ० १०, पृ. ५४-५५] वाग्भट:" संस्कृतं प्राकृतं तस्योपभ्रंशो भूतौषितम् । इति भाषाश्चतस्रोऽपि यान्ति काव्यस्य कायताम् ॥" --वाग्भटालङ्कारे [ प. २; १,३] भाषाषटकेऽपभ्रंश- चण्ड-हेमचन्द्र-हृषीकेश-त्रिविक्रम-सिंहराज-लक्ष्मीधर-क्रम स्थानम् दीश्वर-शेषकृष्ण-मार्कण्डेयादिभिर्व्याकरणादिनाऽवबोधितासु षट्सु पाषास्वपभ्रंशभाषाऽपि प्राबोधि । अन्यैरपि च रुद्रट-भोजराज-जिनदत्तामरचन्द्रादेभिर्निजे निजे ग्रन्थे भाषाषट्कं निर्दिश्य तत्रापभ्रंशस्य स्मरणमकारि । तथाहि चण्ड: " संस्कृतं प्राकृतं चैवापभ्रंशोऽथ पिऑचिकी । मार्गधी शौरसेनी च षड् भाषाश्च प्रकीर्तिताः ॥"--प्राकृतलक्षणे । रुद्रट :-- " वाक्यं भवति द्वेधा गद्य छन्दोगतं च भूयोऽपि । भाषाभेदनिमित्तः षोढा भेदोऽस्य सम्भवति ॥ प्राकृत-संस्कृत-मागंध-पिशाचंभाषाश्च सू( शू )रसेनी च । षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः ॥" --काव्यालङ्कारे [ अ. २, श्लो० ११-१२] भोजराज :-- " संस्कृतेनैव कोऽप्यर्थः प्राकृतेनैव चापरः । शक्यो वाचयितुं कश्चिदपभ्रंशेन वा पुनः॥ शाच्या शौरसेन्या च मार्गध्याऽन्यो निबध्यते।द्वित्राभिः कोऽपि भाषाभिः सर्वाभिरपि कश्चन।' --सरस्वतीकण्ठाभरणे । हेमचन्द्राचार्य : 'भाषा: षट् संस्कृतादिकाः ।' "भाष्यन्ते भाषाः संस्कृत-प्राकृत-मागंधी-शौरसेनी-पैशाच्यपभ्रंशलक्षणाः।" -अभिधानचिन्तामणौ [ का० २, श्लो० १९९] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy