________________
ऐयं पुण ण सुटु । किं पुण होहिइ ति चिंतयंतेण पुणो समायंण्णिअं । अरे अस्थि चउत्था(त्थी) भासा पेसाया, ता सा इमा होहि त्ति ॥"
----कुवलयमालाकथायाम् [ जे. भां. ता. प. ५७, ५८ ] भाषाचतुष्टयकवित्वविषये उपलभ्यन्तेऽन्येऽपीमे उल्लेखाः । राजशेखर उद्धरति तदुक्तमित्युलिख्य प्राचीनमिदं पद्यद्वयम्-- " एकोऽर्थः संस्कृतोक्त्या स सुकविरचनः प्राकृतेनापरोऽस्मिन्
अन्योऽपभ्रंशगीर्भिः किमपरमपरो भूतभॊषाक्रमेण । द्वित्राभिः कोऽपि वाग्भिर्भवति चतसृभिः किञ्च कश्चिद् विवेक्तुं
यस्येत्थं धीः प्रपन्ना(गरमा) स्नपयति सुकवेस्तस्य कीर्तिर्जगन्ति ।।" "गौडाद्याः संस्कृतस्थाः परिचितरुचयः प्राकृते लाटदेश्याः
सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादानकाश्च । आवन्याः पारियात्राः सह दशपुरजैर्भूतभॊषां भजन्ते यो मध्येमध्यदेशं निवसति स कविः सर्वभाषानिषण्णः ॥"
-काव्यमीमांसायाम् [ अ.९, १०, ४८,९१ ] राजशेखरः-- “ गिरः श्रव्या दिव्याः प्रकृतिमधुराः प्राकृतधुरः
सुमव्योऽपभ्रंशः सरसरचनं भूतर्वचनम् । विभिन्नाः पन्थानः किमपि कमनीयाश्च त इमे निबद्धा यस्त्वेषां स खलु निखिलेऽस्मिन् कविवृषा ॥"
--बालरामायणे [ १,११] " ससंस्कृतमपभ्रंशं लालित्यालिङ्गितं पठेत् । प्राकृतं भूतभॊषां च सौष्ठवोत्तरमुगिरेत् ॥"
---काव्यमीमांसायाम् [अ० ७, पृ. ३३]
१ एतत् पुनर्न सुष्ठु । किं पुनर्भविष्यति ? इति चिन्तयता पुनः समाकर्णितम् । भरे ! अस्ति चतुथीं भाषा पैशाची । तत् सेयं भविष्यति इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org