________________
वाङ्मयस्य काव्यकायरूपाणां भाषाणां वा चातुर्विध्यमपि प्रतिपादित भाषाचतुष्टये अपभ्रंश- प्रतिष्ठितैः पुरातनैस्तद्विद्भिः खल्वपभ्रंशस्य प्रतिष्ठया । सातवाहननृपास्थानम्
श्रितगुणाढ्यकविविशेषणेऽप्येतद् द्योतितं सम्भाव्यते। तथा कविदण्डी" तदेतद् वाङ्मयं भूयः संस्कृतं प्राकृतं तथा । अपभ्रंशश्च मिङ चेत्याहुरार्याश्चतुर्विधम् ॥"
-~-काव्यादर्श [ अ. १, ३२] वि. सं. ८३५ वर्षे दाक्षिण्यचिह्नोद्योतनाचार्य :
" आयण्णिऊण य चिंतियं णेण–'अरे ! कयलीए उण भासाए एयं उल्लवियइ केणावि किंपि ? हूं अरे ! सक्कं ताव ण होइ, जेण तं अणेयपय-समासणिवाउवसग्ग-विभत्ति-लिंगपरिअप्पणाकुवियप्पसंगदुग्गमं दुजणहिययं पिव विसमं ।
इमं पुण एरिसं । ता किं पाययं होज्ज ? ।हुँ, तं पि णो जेण तं सयलकलाकलाप(व)मालाजलकल्लोलसंकुलं लोयवृत्तंतमहोअहिमहापुरिसम( मु )हणुग्गयामयणीसंदबिंदुसंदोहं संघडिएएकेक्कमवण्णापय-णाणारूवविरयणासहं सज्जणवयणं पिव सुहसंगयं ।
__ एयं पुण ण मुट्ठ । ता किं अवहंसं होहिइ ? | हूं । तं पि णो जेण [तं] सक्कय-पाय-उभयसुद्धासुद्धपयसमतरंगरंगंतवग्गिरं णवपाउसजलयपवाहपूरपवालियगिरिणइसरिसं समविसमं पणयकुवियपियपणइणीसमुल्लावसरिसं मणोहरं।
१" इति श्रीमत्कुन्तलजनपदेश्वर-प्रतिष्ठानपत्तनाधीश-शतकर्णोपनामकद्वीपिकर्णात्मज-मलयवतीप्राणप्रिय-कालापप्रवर्तक-शर्ववर्मधीसख-मलयवत्युपदेशपण्डितीभूत-त्यकभाषात्रय-स्वीकृतपैशाचिकपण्डितराजगुणाढ्यनिर्मितभस्मीभवबहत्कथाऽवशिष्टसप्तमांशावलोकनप्राकृतादिवाक्पश्वकप्रीत-कविवत्सल-हालाद्युपनामकश्रीसातवाहननरेन्द्रनिर्मिता विविधान्योक्तिमयप्राकृतगीर्गुम्फिता शुचिरसप्रधाना काव्योत्तमा सप्तशत्यवसानमगात् ॥"-गाथासप्तशतीप्रान्ते [ पि. रि. ३, ३४९]
__२ आकर्ण्य च चिन्तितमनेन-अरे ! कतरया पुनर्भाषयैतदुल्लप्यते केनापि किमपि ? । हुँ । अरे ! संस्कृतं तावद् न भवति, येन तदनेकपद-समास-निपातोपसर्ग-विभक्तिलिङ्गपरिकल्पनाकुविकल्पसनदुर्गम दुर्जनहृदयमिव विषमम् ।
इदं पुनरीदृशम् । तत् किं प्राकृतं भवेत् । हूं। तदपि नो येन तत् सकलकलाकलापमालाजलकलोलसङ्कुलं लोकवृत्तान्तमहोदधि-महापुरुषमुखनिर्गतामृतनिःस्यन्दबिन्दुसन्दोहं सङ्घटितैकैकक्रमवर्ण-पद-नानारूपविरचनासहं सज्जनवचनमिव सुखसङ्गतम् ।
_एतत् पुनर्न सुष्ठु । तत् किम् अपभ्रंशं भविष्यति ? । हूं ।तदपि नो येन [तत्] संस्कृतप्राकृतोभयशुद्धाशुद्धपदसमतरङ्गरगवल्गु नवप्राड्जलदप्रवाहपूरप्लावितगिरिनदीसदृशं समविषमं प्रणयकुपितप्रियप्रणयिनीसमुल्लापसदृशं मनोहरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org