________________
देशभाषाणा- कुवलयमालाकर्तुरभिप्रेतमपभ्रंशलक्षणं भाषाचतुष्टयेऽपभ्रंशस्थानमित्यत्राने मपभ्रंशे FMR: दृग्गोचरं भविष्यति । पुरातनैः प्राज्ञैर्देशभाषाणामपभ्रंशे समावेशः पर्यदार्श।
तथा रुद्रट:'षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः।' -काव्यालङ्कारे [२, १२] " देशेषु देशेषु पृथग विभिन्नं न शक्यते लक्षणतस्तु वक्तुम् । लोकेषु यत् स्यादपभ्रष्टसंज्ञं ज्ञेयं हि तद्देशविदोऽधिकारम् ॥"
-विष्णुधर्मोत्तरे [खं. ३ अ. ७ ] वाग्भट:'अपभ्रंशस्तु यच्छुद्धं तत्तद्देशेषु भाषितम् ।' -काव्यालङ्कारे [२, ३] रामचन्द्र-गुणचन्द्रौ“ देशोद्देशे स्वदेशगीः । तिर्यग्नात्यन्तरादीनामानुरूप्येण संकथा ।
देशस्य कुरु-मगधादेरुद्देशः प्रकृतत्वं तस्मिन् सति स्वस्वदेशसम्बन्धिनी भाषा निबन्धनीयेति । इयं च देशगीश्च प्रायोऽपभ्रंशे निपततीति ॥"
-स्वोपज्ञविवरणोपेते नाट्यदर्पणे [ प. १२४ ] भाषात्रयेऽप- उपलभ्यमानैः प्रमाणैः प्रतीयते खलु विक्रमीयप्रथमशताब्द्याः पूर्वमभ्रंशस्थानम् प्यपभ्रंशभाषायां गद्य-पद्यमयानि काव्यानि स्युरिति । छन्दो-लक्षणकाव्यालङ्कारानुशासकैः पिङ्गल-भामह-स्वयम्भू-हेमचन्द्रप्रभृतिभिरन्यैरपि च भाषात्रये तत्काव्यसूचनमकारि । तथा च शकसं. ४०० तमवींये धरसेन-ताम्रपत्रे'संस्कृत-प्राकृतापभ्रंशभाषात्रयप्रतिबद्धप्रबन्धरचनानिपुणतरान्तःकरणः
-वलभीराजगुहसेनविशेषणे [ इ. ए. १०, २८४] भामहः" शब्दार्थों सहितौ काव्यं गद्यं पद्यं च तद् द्विधा । संस्कृतं प्राकृतं चान्यदपभ्रंश इति त्रिधा ॥"--काव्यालङ्कारे [ १, १६ ] " संस्कृतं प्राकृतं चैव गीतं द्विविधमुच्यते । अपभ्रष्टं तृतीयं च तदनन्तं नराधिप ! ॥ देशभाषाविशेषेण तस्यान्तो नेह विद्यते ।"
-विष्णुधर्मोत्तरे [ खं. ३, अ. ३ ] हेमचन्द्राचार्यः
" पद्यं प्रायः संस्कृत-प्राकृतापभ्रंश--ग्राम्यभाषानिबद्धभिन्नान्त्यवृत्त-सर्गाश्वाससन्ध्यवस्कन्धकबन्धं सत्सन्धि शब्दार्थवैचित्र्योपेतं महाकाव्यम् ।
अपभ्रंशभाषानिबद्धसन्धिबन्धमब्धिमथनादि, ग्राम्यापभ्रंशभाषानिबद्धावस्कन्धकबन्धं भीमकाव्यादि ।" -काव्यानुशासने [ अ. ८, ३३०-७]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org