________________
क्र. २१)। तत्रापि संयममञ्जरी तु डॉ. पी. डी. गुणेमहाशयेन भविष्यदत्तकथोपो
द्घाते समुद्धृता । नेमिनाथचरितं च डॉ. हर्मण याकोबीमहाशयेन निजभाषालिप्यां समपादि । वि. सं. १२७४ वर्षेऽमरकीर्तिविरचितः षट्कर्मोपदेशोऽन्येऽप्येतादृशा अवाप्यन्तेऽप्रसिद्धा ग्रन्थाः । अन्यदपि प्राप्यते यत्र तत्रोपदेश-कथा-चरित-प्रबन्धाद्यन्तर्गतं नाटकालङ्कार-च्छन्दः-स्तोत्रादिगतं कुलकादिरूपं च प्रसिद्धाप्रसिद्धमपभ्रंशवाङ्मयम् । महाकविपुष्पदन्तस्य त्रिषष्टिमहापुरुषगुणालङ्कारमहापुराण-नागकुमारचरित-यशोधरचरितानि, श्रीचन्द्रस्य कथाकोषः, कनकामरस्य करकण्डूचरितम्, पद्मकीर्तेः पार्श्वनाथपुराणम् , देवसेनस्य श्रावकधर्माचारः, नयनन्देः सुदर्शनचरितम् , धवलस्य हरिवंशपुराणमित्यादीन्यपभ्रंशकाव्यानि प्रारम्भप्रान्तांशप्रदर्शनपूर्व सूचितानि खलु मध्यप्रदेश-बिरारसत्कपुस्तकसूच्यां रा. ब. श्रीयुतहीरालालमहाशयेन । इतराणि तु प्रेक्षिष्यन्त इत एव प्रकाश्यमानायां पत्तनीयजैनभाण्डागारसूच्यामिति नात्र तदंशा अवतार्यन्ते । गद्य-पद्यमयं प्राचीनमुदाहृतिरूपं कियच्चान परिदर्श्यते ।
अपभ्रंशभाषाप्रसिद्धं ध्रुवकमुत्तराध्ययनादौ जैनसिद्धान्तसूत्रेऽअपभ्रंश
र प्युपलभ्यते', यस्य स्मरणं दाक्षिण्यचिह्नोद्योतनाचार्यादिना कुवलयवाङ्मयोदाहरणानि ।
" मालाकथाऽऽदौ हेमचन्द्राचार्यप्रभृतिभिः छन्दोऽनुशासनादौ च व्यधायि । संस्कृतादन्यदपभ्रंश इति पतञ्जलि-दण्डिदर्शितपूर्वोक्तलक्षणानुसारेणापभ्रंशसंज्ञिते प्राकृतलाक्षणिकैश्चार्षप्राकृताधमागधीति संज्ञया प्रख्यापिते प्राचीने जैनसिद्धान्ते तनियुक्तिभाष्य-चूर्णि-वृत्तिप्रभृतिषु तथाऽपभ्रंशलक्षणसिद्धे कथा-काव्यादौ चोपलभ्यन्तेऽपरिमिताः शब्दा येऽद्यावधि प्रयुज्यन्तेऽपभ्रंशापरनामधेयासु देशभाषासु। भूमिकागौरवभयात् कियदेवात्रोदाहियते१ "अधुवे असासयंमि संसारंमि दुक्खपउराए ।
किं नाम होज तं कम्मयं जेणाहं दुग्गइं न गच्छेजा ॥" -उत्तराध्ययने [८,१]. विक्रमीयैकादशशताब्द्यां विद्यमानो वादिवेतालशान्तिसूरिरस्य व्याख्यायामित्थमसूचयत्" स हि भगवान् कपिलनामा स्वयम्बुद्धश्चौरसङ्घातसम्बोधनायेमं(दं ) ध्रुवकं संगीतवान् । ध्रुवकलक्षणं चेदम्
'जं गिजइ पुवं( धुवं ) चिय पुण पुणो सव्वकव्वबंधेसु ।
धुवयं ति तमिह तिविहं छप्पयं चउपयं दुपयं ॥' एवं च भगवतोद्गीते तेऽप्येनमेव ध्रुवकं प्रत्युद्गायन्ति, तालं च कुट्टयन्ति ।"
-उत्तराध्ययनबृहद्वत्तौ [ २८९-२९० ]. २ एतदने चर्चरीविमर्श [ भू. पृ. ११४ ] विलोकनीयम् । ३ ' सन्ध्यादौ कडवकान्ते च ध्रुवं स्यादिति ध्रुवा ध्रुवकं घत्ता वेति संज्ञान्तरम् ।'
-छन्दोऽनुशासने [ ६,१].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org