________________
४७४.
कुमारपालप्रतिबोघे
[पञ्चम
अहो ! धर्मस्य माहात्म्यमिति जल्पन् सविस्मयः । स चान्यस्वजनः प्रायो जिनधर्ममशिश्रियत् ॥ तं द्रष्टुं कोतुकाल्लोको भूयानागमदन्यतः। कुत्र यासि कुतो वाऽगा इति पृष्टः स चावदत् ॥ एलकाक्षोऽस्ति यत्रेति तद्दशार्णपुरे ततः।
एलकाक्षमिति प्रोक्तमेलकाक्षस्य योगतः ॥ आसीन्नृपस्तत्र दशार्णभद्रो यस्य प्रतापेन यशोयुतेन । विसर्पिणाऽकारि दिगङ्गानानां मौक्तिकस्वर्णविभूषणश्रीः ॥
तस्य पञ्चशतान्यासन् पत्नीनां पद्मचक्षुषाम् । चन्द्रसोदरवक्राणां चामीकरसमत्विषाम् ॥ स निजैश्वर्यसौन्दर्ययौवनान्तपुरादिभिः। उन्मदिष्णुमना मेने न तृणाय जगत्त्रयम् ॥ अथ तत्र महावीरस्त्रैलोक्यालोकभास्करः। दशार्णस्य गिरेः कृटे भगवान् समवासरत् ॥ श्रुत्वा दशार्णभद्रस्तमिति हृष्टो व्यचिन्तयत् । तं वन्दिष्ये तथा प्रातर्यथाऽचन्दत नापरः॥ ततोऽसौ तुङ्गमातङ्गतुरङ्गरथपत्तिभिः। शुद्धान्तेन च सर्व्वा निर्गतो वन्दितुं जिनम् ॥ विज्ञाय तदभिप्रायं वृत्रशत्रुरचिन्तयत् । अहो ! ऋजुरयं राजा यदेवं विदधे मदम् ॥ तस्यावलेपलोपाय सर्वदिव्यर्द्धिसंयुतः । अगादैरावणारूढो महावीरं विवन्दिषुः ॥ दन्तानैरावणस्याष्टौ वैक्रियान्मघवाऽकरोत् । तेषु प्रत्येकमष्टाष्टवापीः शक्रो विनिर्ममे ॥ अष्टावष्टौ सरोजानि वापीषु विद्घ हरिः। पत्राण्यष्टाष्टपद्मानां रचयामास वासवः ॥ पत्रे पत्रे सहस्राक्षः कृतलोककुतूहलैः। दिव्यैर्द्वात्रिंशता पत्रैर्निबद्धं नाटकं व्यधात्॥ एवमैरावणारूढस्तिस्रः कृत्वा प्रदक्षिणाः । भगवन्तं महावीरं नमश्चक्रे पुरन्दरः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org