________________
दशार्णभद्र - कथा |
हहा ! विषयपङ्कौघमग्नस्तिष्ठति मादृशः । धन्यो दशार्णभद्रः स राज्यं तत्याज यः क्षणात् ॥
तद्यथा
प्राकार प्रवराकारं पुरुषं परिखाऽङ्गना । यत्रोम्मीदोर्भिरालिङ्गय तस्थौ घनरसोल्बणा ॥ अस्त्यत्र भारते क्षेत्रे तद्दशार्णपुरं पुरम् । एलकाक्षमिति प्रोक्तं तद्यथा कथ्यते तथा ॥ जिनधर्म्मवहिर्भूतस्तत्र कश्चिदभूवणिक् । बको हंसीमिवायोग्यः श्राविकामुदुवाह सः ॥ सा सन्ध्यावश्यकं कृत्वा प्रत्याख्याद्रात्रिभोजनम् । पतिः प्रोचे किमेतेन प्रत्याख्यानेन सुन्दरि ! ॥ किं रात्रौ कश्चिदुत्थाय भुङ्ग इत्यहसत्स ताम् । सोऽन्यदोचेहमप्यद्य प्रत्याखामि निशासनम् ॥ नाथ ! भक्ष्यसि तत्त्वं मा प्रत्याख्या इति साऽवदत् । भक्तमहमुत्थाय रात्रावद्मि किमन्यदा ॥ श्राविकां प्रहसत्येष तत्पश्याम्यस्य निश्चयम् । इत्येका देवता दध्यौ धर्मः कस्य न हि प्रियः ॥ तत्रैवासीत् स्वसा तस्य तस्या रूपेण देवता । आनिन्ये भोजनं रात्रौ भ्रातर्भुक्ष्वेति चाभ्यधात् ॥ तदासौ भोक्तुमारेभे निषिद्धो भार्ययाऽवदत् । किमेभिस्तावकैर्वाक्यैर्दिव्यं मुञ्चामि भोजनम् ॥ ततस्तलप्रहारेण देव्या तस्याक्षिगोलकौ । पातितौ श्राविका वीक्ष्य मापकीर्तिर्ममास्त्विति ॥ विचिन्त्य पत्युः क्षेमार्थं कायोत्सर्गेण सा स्थिता । न पत्यौ प्रतिकूलेऽपि प्रतिकूलाः कुलस्त्रियः ॥ अर्द्धरात्रे समागत्य श्राविकां देवताऽवदत् । किं कार्यमिति साऽवोचन्ममेदमयशो हर ॥ व्यापादितस्य तत्कालमेलकस्याक्षिणी ततः । देव्या शिघ्रं समानीय सजीवे तस्य योजिते ॥ प्रातर्लोकस्तमप्राक्षीद्दे लकस्येव [1] ""रात्रिवृत्तान्तं स न्यवेदयत् ॥
प्रताव : ]
***********
Jain Education International
For Private & Personal Use Only
४७३
www.jainelibrary.org